________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
SASRSasa 8282828282828282828282828282
'रज्ज्वा ' दवरिकया । 'रङ्कवः इव' मृगविशेषाः इव । 'नराः' सामान्यमनुष्याः । 'नरश्रियाऽपि' मानवलक्ष्म्याऽपि । 'बध्यन्ते' आसक्ताः भवन्ति । 'पुत्र' हे वत्स ! त्वम् । 'श्रृङ्खलया इव' लोहनिगडेन इव । 'दिव्यश्रियाऽपि' देवलक्ष्म्याऽपि न बद्ध: । 'सिंहः' पञ्चाननः यथा श्रृङ्खलया न बध्यते ॥ ३० ॥
किं ते भूयः प्रियं तात ! करोमि वद कोविद ! । भवनाटकनिर्वाहसन्धिसन्धाविधायिनः ॥ ३१ ॥
'तात' हे वत्स ! । 'भूयः' पुनः । 'ते' तव । किं प्रियं-इष्टम् । 'करोमि' विदधामि । 'कोविद' हे कृतिन् । 'वद' ब्रूहि । कथम्भूतस्य तव ? 'भव-नाटक-निर्वाह-सन्धि-सन्धा-विधायिनः' भवनाटकस्य यः निर्वाह: तस्य सन्धिविषये या सन्धा-प्रतिज्ञा तां विदधाति-करोति इत्येवंशीलस्य तव ॥ ३१ ॥
आलपत्प्राञ्जलिः शालिः, प्राप्तकालं विशालधीः । मम निष्क्रमणोत्साहै-दिव्यर्द्धि सफलीकुरु ॥ ३२॥
'प्राञ्जलिः' प्रकृष्टः अञ्जलि: बद्ध: येन सः. योजितहस्तः इत्यर्थः । 'विशालधीः' विपुलमतिः । 'शालिः' शालिभद्रः। 'प्राप्तकालं' उचितम् । 'आलपत्' उवाच । मम निष्क्रमणोत्साहै:-दीक्षामहोत्सवैः । 'दिव्यर्द्धि दिव्यां समृद्धिम् । 'सफलीकुरु' सफलां कुरु ॥ ३२ ॥
एवं जनकमापृच्छ्य, स्वच्छ: स्वच्छन्दशौर्यवान् । प्रेयसी: श्रेयसीभक्तीरापपृच्छे महेच्छधीः ॥ ३३ ॥
'एवं' उपर्युक्तप्रकारेण । 'स्वच्छ:' पवित्रः । 'स्वच्छन्द-शौर्यवान्' स्वस्य आत्मनः छन्द:-अभिप्रायः संयमाभिलाषरूपः तस्मिन् शौर्यवान् शालिभद्रः । 'जनक' गोभद्रदेवम् । 'आपृच्छय' अनुज्ञाप्य । 'महेच्छधी:' महेच्छावती
8282828282828282828282828282828282
॥ २४८॥