________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
तव प्रसादाद् दिव्यश्री-रनुभूता मयाऽद्भुता । जीवन्मुक्तिरिवाध्यात्म-विदा योगस्य दुर्लभा ॥ २७ ॥
'तव' पितुः । 'प्रसादात्' कृपातः । 'अद्भुता' आश्चर्यकारिणी । 'दिव्यश्रीः' स्वर्गसम्बन्धिनी लक्ष्मीः । मया । 'अनुभूताः' उपभुक्ताः । केन इव ? 'अध्यात्मविदा इव' अध्यात्मतत्त्वविजेन इव । 'योगस्य' यमनियमाद्यष्टाङ्गरूपस्य योगस्य । 'दुर्लभा' सामान्यजनेन दुष्प्रापा । 'जीवन्मुक्तिः' योगिनि जीवति सति मुक्तिः, सदेहमुक्तिः, मुक्तेरानन्दः इत्यर्थः । अनुभूयते ॥ २७ ॥
स्वसूनोः साम्प्रतं तात ! वीरनाथात् प्रपूरय । प्रशमश्रीपरीरम्भ-संरम्भाऽऽरम्भकौतुकम् ॥ २८ ॥
'तात' हे पितः । 'साम्प्रतं' अधना । 'स्वसनोः' निजपुत्रस्य मम । 'प्रशमश्रीपरीरम्भ संरम्भारम्भकौतुकम्' प्रशमश्रियाः-प्रशान्तिलक्ष्म्याः परीरम्भ:-आलिङ्गनं तस्य संरम्भ:-आटोपः तस्य आरम्भः तस्य कौतुकं कुतुहलम् । 'वीरनाथात्' महावीरप्रभोः। 'प्रपूरय' पूर्णीकुरु ॥ २८ ॥
सुरः प्राह सुजातोऽसि, धीर ! धन्योऽसि धिनीधे । वर्षीयान् यदहं चक्रे, व्रतं तद् यौवने त्वया ॥ २९ ॥
'सुरः' गोभद्रदेव: ‘प्राह' कथयति 'धीर' हे धैर्यवन् ! । 'सुजातः' मत्तोऽपि अधिकगुणः अतिजातः पुत्रः । अतिजात: पुत्रः पितुरपि अतिरिच्यते । यदुक्तम्-"मातुतुल्यगुणो जातोऽ-नुजातश्च पितुः समः । अतिजातोऽधिकस्तस्मादपजातोऽधमाधमः ॥" 'असि' वर्तसे । 'धीनिधे' हे मतिनिधान ! । 'धन्यः' प्रशस्यः । असि । 'यत्' व्रतम् । अहम् । 'वर्षीयान्' वृद्धः । 'चक्रे' स्वीकृतवान् । 'तत्' व्रतम् । त्वया । 'यौवने' भोगार्हकाले । 'चक्रे' अङ्गीकृतम् । स्वीकर्तुमिच्छसि इत्यर्थः ॥ २९ ॥
नरश्रियाऽपि बध्यन्ते, नरा रज्ज्वेव रङ्कवः । दिव्यश्रियाऽपि पुत्र ! त्वं, सिंहः श्रृङ्खलयेव न ॥ ३०॥
satasa8RSR88RSONASRSASASASRSANASNA
॥२४७॥