________________
श्री
शालिभद्र महाकाव्यम्
TRERERE
श्रीशालिस्थ गोभद्रं देवं प्रत्यक्षमुचिवान् । तात दिव्यमहाभोग श्रिया विश्राणनान्मम ॥ २३ ॥ अनुरामं यथा पुत्रा, भ्रातरश्चानुलक्ष्मणम् । भृत्या अनुहनूमन्तमनुत्वां पितरस्तथा ॥ २४ ॥ अथ श्रीशालिः श्रीशालिभद्रः । 'गोभद्रं' पितरम् । 'प्रत्यक्षं' साक्षात् समागतम् । 'देवं' अमरम् । 'उचिवान्' कथयामास । 'तात' हे पितः ! मम दिव्यमहा भोगश्रियाः परमोत्कृष्टविलासलक्ष्म्याः 'विश्राणनात्' दानात् । ॥ २३ ॥ यथा । 'अनुरामं' रामस्य पश्चात् । 'उत्कृष्टेऽनूपेन २।२।२९ ॥ इति द्वितीया । 'पुत्राः ' तनयाः । पुत्रेषु मुख्यः रामः इत्यर्थः। 'अनुहनूमन्तं च भृत्याः ' भृत्येषु मुख्यः हनूमान् इत्यर्थः तथा अनुत्वां पितरः पितृषु मुख्यः त्वं जातः इत्यर्थः ॥ २४ ॥
पितरः सुतसात्कुर्युः विश्वेऽपि श्रियमैहिकीम् । यौष्माकीणा अहं प्राप, लक्ष्मीरामुष्मिकीरपि ।। २५ ॥
‘विश्वेऽपि’ लोकेऽपि । ‘ऐहिकीं' इहलोकसम्बधिनीम् । श्रियं' लक्ष्मीम् । 'सुतसात् पुत्राधीनाम् । सुतेऽधीनामिति सुतसात् । 'तत्राऽधीने' इति स्सात् प्रत्ययः । 'कुर्युः' विदध्युः । अहम् । 'यौष्माकीणाः' युष्माकं इमाः । 'आमुष्मिकी: अपि परलोकसम्बन्धिनीः अपि । 'लक्ष्मी' श्रीः 'प्राप' प्राप्तवान् ॥ २५ ॥
छायातरोः फलं पुष्पोद्गतमश्नन्ति पक्षिणः । सुधियः पुण्यवन्तस्तु प्रभावभवमप्यदः ॥ २६ ॥
‘छायातरोः' छायाप्रधानवृक्षस्य । 'पुष्पोद्गतं फलं' कुसुमजन्यं फलम् । 'पक्षिणः ' विहगाः । 'अश्नन्ति' भक्षयन्ति 'तु' किन्तु । 'सुधियः' सुबुद्धयः । 'पुण्यवन्तः सुकृतशालिनः । 'प्रभावभवमपि धर्मप्रभावजन्यमपि । 'अदः ' प्रत्यक्षोपलक्ष्यं दिव्यश्री भोगरूपं फलम् । 'अश्नन्ति' भुञ्जते ॥ २६ ॥
328
REREDER
षष्ठः
प्रक्रमः
।। २४६ ॥