________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'यस्य' मम । 'स्वसा' भगिनी सुभद्रा । 'स्वसुः पतिः' भगिनीपतिः धन्यः । 'नासीर-वीरतां' 'नासीरे' अग्रगमने 'वीरतां' चारित्रपराक्रमरूपाम् । 'इयतुः' गच्छतः स्म । सः अहम् । 'स्वेच्छया' निजाभिलाषेण । 'पाश्चात्ययानाय' पाश्चात्याय यानाय-गमनाय अनुगमनाय इत्यर्थः । किमु न उत्सहे कथं न सज्जीभवामि ? ॥ ११ ॥
एकं यियासुरग्रे (हि) सार्थोऽप्यथ गृहोत्थितः । सूनुस्तेन कथं रोढुं शक्योऽयमिति निश्चिता ॥ १२ ॥ भद्रा संवर्म्य धैर्येण, वज्रेणेव निजं मनः । प्रवीणतानदीवेणिः, श्रीश्रेणिकमुपागमत् ॥ १३ ॥
'एक' प्रथमं तावत् । 'अग्रे' धन्यदीक्षापूर्वमेव । “यियासुः' यातुमिच्छु: दीक्षेच्छु: अभूत् । अथ 'सार्थोऽपि' सार्थरूपः धन्यजामाताऽपि । 'गहोत्थितः' गृहात् संसारात् उत्थितः निर्गतः । 'तेन' तत्कारणेन । कथम् ? अयं सूनुः पुत्रः । 'रोद्धं शक्यः' गृहे स्थापयितुम् शक्यः । इति निश्चिता निश्चयं गता ॥ १२ ॥ भद्रा । 'वजेण इव धैर्येण' वज्रतुल्येन धैर्येण । 'निजं मनः' स्वीयं चेत: । 'संवर्म्य' वर्मणा सन्नह्य । 'प्रवीणतानदीवेणिः' दक्षतानदीप्रवाहः । 'श्रीश्रेणिकं' राजानम् । 'उपागमत्' समीपे गता ॥ १३ ॥
व्यजिज्ञपच्च राजानं, दिव्यश्रीर्देव ! मेऽङ्गजः । वीराधिवीर: श्रीवीराद्, व्रतादानां समीहते ॥ १४ ॥
राजानं श्रेणिकम् । 'व्यजिज्ञपत्' विज्ञपयामास । 'देव' हे राजन् ! 'मे' मम । 'दिव्यश्रीः' देवार्पितश्रीभोक्ता। 'वीराधिवीरः' वीरेषु अपि वीरः । 'अङ्गजः पुत्रः शालिभद्रः । 'श्रीवीराद्' श्रीवर्धमानस्वामिनः । 'व्रतादानं' दीक्षाम् । 'समीहते' इच्छति ॥ १४ ॥
राज्यश्रीमङ्गले हेम-कुटेन मुकुटेन तत् । पवित्रेणातपत्रेण, चामरै विस्मितामरैः ॥ १५ ॥
ARRARAUAYA8A82828282828282888
॥ २४३॥