________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
वितरणम्। 'ददत्' अर्पयन् । 'याप्ययानं' सुखासनं शिबिकाम् । 'समाश्रितः' अधिरूढः । 'सकलत्रोटितस्नेहः' पत्नीपुत्रादिसकलवस्तुस्तोमात् त्रोटित:-नाशित: स्नेहः प्रेम येन सः द्विधा सकलत्र: कलत्रसहित: प्रियासहितः, सकलान् जीवान् त्रायते इति सकलत्रः इति द्विधा सकलत्रः ॥ ७ ॥ 'सुधीः' सुमतिः । 'प्रशस्तः' मङ्गलरूप: । 'सः' धन्यः । 'प्रभुपादान्ते' वीरविभुचरणान्तिके। 'अभ्येत्य' समागत्य । 'भृशं' अत्यर्थम् । 'दान्तेन' वशीभूतेन । 'मनसा' चेतसा । 'मोक्षोपायं' मोक्षस्य उपायरूपां रत्नत्रयीमयीम्। 'संयमश्रियं' चारित्रलक्ष्मीम् । 'उपायंस्त' परिणीतवान् स्वीकृतवानित्यर्थः ॥ ८ ॥
शालिभद्रस्य दीक्षाश्रीवीरागमनं धन्य-व्रतं मत्वाऽथ शालिना । जितंमन्येन साक्षेपं, जनन्यभिदधे तदा ॥ ९ ॥
अथ । 'श्रीवीरागमनं' श्रीवीरस्य प्रभोः आगमनम् 'धन्यव्रतं' धन्यस्य व्रतं दीक्षाम् । 'मत्वा' ज्ञात्वा । 'जितंमन्येन' आत्मानं धन्येन जितं मन्यमानेन पराजितंमन्येन इत्यर्थः । शालिना । 'तदा' तस्मिन्नवसरे । 'साक्षेपं' आक्षेपपूर्वकम् । 'जननी' भद्रा । 'अभिदधे' उक्ता ॥ ९ ॥
यस्या धन्यः स जामाता, या च माताऽम्ब ! मेऽभवः । सा त्वं किं प्राञ्जले मार्गे, बम्भ्रभिष्यतिपिञ्जला ॥१०॥
'अम्ब' हे मातः ! । 'यस्याः ' तव । 'धन्यः' धन्याभिधः । स जामाता-पुत्रीपतिः । या च त्वं मे-मम । 'माता' जननी । 'अभवः' जाताऽसि । सा त्वम् । 'प्राञ्जले' सरले । 'मार्गे पथि किं' 'अतिपिञ्जला' भृशमाकुला | 'बम्भ्रभिषि' भृशं भ्रमे पतिताऽसि ? ॥ १० ॥
स्वसा स्वसुःपति र्यस्ये-यतु सीरवीरताम् । सोऽहं पाश्चात्ययानाया, स्वच्छया किमु नोत्सहे ॥ ११ ॥
828282828282828282828282828282828482
॥२४२॥