________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
दरिद्राणाम् । तुः चकारार्थः । 'शम्बलं' पाथेयम् पर्वते आजविका) काष्ठाद्यानयनात् । 'क्षोणिकल्याणालङ्कार' पृथ्वीमङ्गलमण्डनम् । 'वैभारं' तन्नामकम् । 'धरणीधरं' पर्वतम् ॥ ३ ॥ 'भूर्भुवःस्वस्त्रयीहीरः' त्रिलोकीरत्नम् । 'सुरसेवितः' सुरैः देवैः सेवितः। 'भववारितरः' संसारजलं तरतीत्येवंशील: । 'प्रभावाढ्यः' प्रभावेण तीर्थकृन्नामकर्मजेन महिम्ना आढ्यः पूर्णः । 'प्रभुश्रीवीरः' भगवान् श्री महावीरदेवः । 'अलञ्चक्रे' भूषयामास समागतः इत्यर्थ ॥ ४ ॥
मोहद्रोहापसरणं, शरणं भवभीभृताम् । सुरैरकारि समव-सरणं शरणं श्रियाम् ॥ ५ ॥
'मोहद्रोहापसरणं' मोहः एव द्रोह: संसारकारणात्, अथवा मोहश्च द्रोहश्च तौ तयोः अपसरणं अपक्रमणं यस्मात् तत् । 'भवभीभृतां' भवात् संसारात् भी: भयं तां बिभ्रतां जनानां शरणं आश्रयः । 'श्रियां' बाह्यान्तरलक्ष्मीणाम् । 'शरणं' गृहम् । 'वसतिः शरणं' इति हैम्याम् । 'समवसरणं' देशनासदनम् । 'सुरैः' देवैः । 'अकारि' विहितम् ॥ ५ ॥
धन्य एनःखगश्येनः, स्ववयस्येन शंसितम् । विदाञ्चक्रे विदां चक्र-वर्ती श्रीधर्मचक्रिणम् ॥ ६ ॥
'एनःखगश्येनः' एनांसि-पापानि तानि एव खगाः पक्षिणः तन्मारणे श्येन:-शशादनः, 'बाज' इति भाषायाम । 'विदां' विज्ञानाम् । 'चक्रवर्ती' मुख्यः । धन्यः । 'स्ववयस्येन' निजमित्रेण । 'शंसितं' ज्ञापितम् । 'श्रीधर्मचक्रिणं श्रीवीरं' धर्मचक्रप्रवर्तकं श्रीवीरम् । 'विदाञ्चक्रे' ज्ञातवान् ॥ ६ ॥
दीनादीनां ददद्दानं, याप्ययानं समाश्रितः । सकलत्रोटितस्नेहः, सकलत्र: सुधीर्द्विधा ॥ ७ ॥ सोऽभ्येत्य प्रभुपादान्ते, दान्तेन मनसा भृशम् । मोक्षोपायमुपायंस्त, प्रशस्त: संयमश्रियम् ॥ ८ ॥ 'दीनादीनां' अनाथादीनाम् । अत्र सम्प्रदानाविवक्षायां शेषे षष्ठी । 'विवक्षातः कारकाणि' इति न्यायात् । 'दानं'
satasa8RSR88RSONASRSASASASRSANASNA
॥ २४१ ॥