________________
षष्ठः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
नरेन्द्रचिद्वैराहाय, सुप्रसादं प्रसीद मे । दीक्षामहोत्सवं सूनो-रन्यूनं येन कारये ॥ १६ ॥
'तत्' तस्मात् । 'राज्यश्रीमङ्गले' राज्यश्रीणां-राज्यलक्ष्मीणाम्, मङ्गले मङ्गलविषये । 'पवित्रेण' प्रशस्तेन । 'आतपत्रेण' छत्रेण । 'विस्मितामरैः' विस्मिता: अमरा: देवाः यैः तैः । 'चामरैः' वालव्यजनैः ॥ १५ ॥ 'नरेन्द्राणां' राज्ञाम् । 'चिह्नः' लाञ्छनैः । 'अह्नाय' शीघ्रम् । 'सुप्रसाद' सुकृपापूर्वकं समर्पितैः । 'मे' ममोपरि । 'प्रसीद' कृपां कुरु । 'येन' यतः। । सूनोः पुत्रस्य । 'अन्यून' सम्पूर्णम् । 'दीक्षामहोत्सवं' प्रव्रज्यामहम् । 'कारये' विद्यापयामि ॥ १६ ॥
वज्रातिवर्चसा तेन, वचसा भूभृदाहतः । आह तदुःखतो भद्रा-माता भद्रां वशामिव ॥ १७ ॥
'वजातिवर्चसा' वज्रादपि अतिवर्चसा अतिशायि वर्चः उग्रं तेजः यस्य तेन । 'तेन' भद्रोक्तेन । 'वचसा' वचनेन । 'आहतः' प्रहत: । 'भूभृत्' श्रेणिकनृपः पर्वतश्च । 'तदुःखतः' शालिविरहदुःखतः । आ' पीडिताम् । 'भद्रां' भद्रजातीयाम्। 'वशामिव' हस्तिनीमिव । 'भद्रां' शालिमातरम् । 'आह' कथयति ॥ १७ ॥
सा भोगजलधेर्वेला-हेला सोमा लता व सा ? । शालेः क्व चारुचारित्र-भारोद्धरणधीरता ॥ १८ ॥
क्व सा-तस्मिन् समये दृष्टा । 'भोगजलधेः' विलाससमुद्रस्य शाले: । "वेलाहेला' वेला-जलवृद्धिरूपा तस्याः | हेला लीला ? क्व सा सोमा लता-सोमाभिधवल्लिसमा शाले: काययष्टिः ? क्व शाले: चारुचारित्रभारस्य सुन्दरसंयमवीवधस्य । 'उद्धरणे' उद्घहने । 'धीरता' धैर्यम् ? ॥ १८ ॥
भूधरोऽपि तृणं यत्र, भोगश्रीरस्य सा पृथुः । उन्मग्नवापगा युक्तं, सुतरा सुतरामभूत् ॥ १९ ॥
8282828282828282828282828282828282
॥२४४॥