________________
पक्रमः
शालिभद्र महाकाव्यम्
SASAKAsa 8282828282828282828282828282
हे स्वामिन् । तव अनुगमलीलया अनुगमनक्रीडया । सत्यं पतिव्रताव्रतं-पतिव्रतास्त्रिया: व्रतम् । 'तीव्र' भीष्मम्। 'निःसङ्गताव्रतं' मुनिव्रतम् । 'उभे अपि' द्वे अपि । 'आराधयिष्यामः' सेविष्यामहे || १६४ ॥ एवं प्रीत्या-प्रेम्णा । 'उक्तवती:' कथितवतीः । 'श्रेयसीतराः' अतिशयेन श्रेयस्यः श्रेयसीतराः ताः । 'प्रेयसी:' प्रियाः । 'परमं' उत्तमम् । 'परं' भव्यम् । इति उक्त्वा -भाषित्वा । धन्यः । 'ता:' प्रियाः । 'अभ्यनन्दयत्' अभिनन्दितवान् ॥ १६५ ॥
उत्कण्ठया निर्वृतिनायिकायाः, कटाक्षितः संयमकाम्यया च । पूर्वप्रियाभिर्वरिवस्यमानः, स वीरनाथागमनं निदध्यौ ॥१६६ ॥ __'निर्वृतिनायिकायाः' निर्वृतिः मुक्तिः सा एव नायिका तस्याः । 'उत्कण्ठया' उत्सुकतया । 'संयमकाम्यया' । संयमस्य काम्यया-वाञ्छया । चः समुच्चये । 'कटाक्षितः' पुन: पुन: वीक्षितः । 'पूर्वप्रियाभिः' पूर्वपत्नीभिः । 'वरिवस्यमानः' पर्युपास्यमानः । 'स:' धन्य: । 'वीरनाथस्य' महावीरदेवस्य । 'आगमनं' आगतिम् । 'निध्यौ'
चिन्तयामास प्रतीक्षाञ्चके इत्यर्थः । उपजातिवृत्तमिदम् । तल्लक्षणं चेदम् "उपेन्द्रवज्रा जतजास्ततो गौ । स्यादिन्द्रवज्रा यदि | तौ जगौ गः । अनन्तरोदीरितलक्ष्मभाजौ, पादौ यदीयावुपजातयस्ता । इत्थं किलान्यास्वपि मिश्रितासु, स्मरन्ति जातिष्विदमेव नाम ॥ इति वृत्तरत्नाकरे ॥ १६६ ॥
दिव्यश्रीपरिवेषतां रसवती भोगाङ्गभङ्गीमिमा,-मानन्दाश्रुविमिश्रसुन्दरदृशा, श्रीश्रेणिकेनेक्षिताम् । बाष्पापूर्णदृशा चकोरकवरेणेवान्तरुद्यद्विषां, श्रीशालिः किल मानशालिनृपतिः सम्भावयामासिवान् ॥१६७॥
'दिव्यश्रीपरिवेषितां' दिव्यश्रीभिः परिवेषितां-परिवृत्ताम् । पक्षे प्रदत्ताम् । ('पीरसायेली' इति भाषायाम्) । 'भोगाङ्गभङ्गी' भोगाङ्गानां भङ्गी-सामग्री यस्यां ताम् । 'आनन्दाश्रुविमिश्रया' प्रमोद बाष्पाश्रुयुक्तया । 'सुन्दरदृशा'
satasa8RSR88RSONASRSASASASRSANASNA
॥ २३८ ॥