________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
भाग्यसौभाग्यसाराणां, सतीनां धर्मधीजुषाम् । श्रीणां स्त्रीणां च मन्येऽहं, त्यागेनैवोत्तमं फलम् ॥ १६१ ॥ इत्युदीर्य लसद्धैर्य, जीववीर्यविशेषवान् । प्रस्थितः स्थिरतामेरुप्रस्थसुस्थमतिस्थितिः ॥ १६२ ॥
'भाग्यसौभाग्यसाराणां' भाग्यसौभाग्ये एव सार: यासां तासाम् । 'सतीनां' साध्वीस्त्रीणां कुलीनानाम् । श्रीपक्षे सत्यमार्गेण उपात्तानां विद्यमानानां वा । 'धर्मधीजुषां' सुकृतमति सहितानाम् । पक्षे-धर्मे धियं जोषन्ति कुर्वन्ति तासाम् । श्रीणां लक्ष्मीणाम् । 'स्त्रीणां च' महिलानां च । 'त्यागेनैव' परिहारेणैव' पक्षे-दानेनैव । 'उत्तम' उत्कृष्टम् । फलं स्यादिति अहं मन्ये ॥ १६१ ॥ इति उदीर्य-कथयित्वा । 'जीववीर्यविशेषवान्' विशिष्टात्मवीर्यवान् । 'स्थिरतामेरुप्रस्थसुस्थमतिस्थितिः' स्थिरतायां स्थैर्ये मेरुप्रस्थवत् मेरुशिखरवत् सुस्था-स्वस्था मतिस्थितिः यस्य सः । 'लसद्धैर्य' यथा लसत् स्फुरत् धैर्य तथा, क्रियाविशेषणमिदम् । 'प्रस्थितः' दीक्षार्थं चलितः ॥ १६२ ॥
सिद्धिः सत्त्वं कलाऽभ्यासं, लक्ष्मी: पुण्यं प्रभा रविम् ।अनुयान्ति यथा नाथ ! तथा कान्तं कुलाङ्गनाः ॥१६३ ॥
यथा । 'सत्त्वं' आत्मबलम् । 'सिद्धिः' प्राप्ति: । 'अभ्यासं' प्रयत्नम् । 'कला' धनुर्विद्यादिकला । 'पुण्यं' सुकृतम् ‘लक्ष्मीः' श्रीः । 'रवि' सूर्यम् । 'प्रभा' कान्तिः । अनुयान्ति अनुगच्छन्ति । तथा नाथ हे स्वामिन् । 'कान्तं' पतिम् । 'कुलाङ्गनाः' सतीस्त्रियः अनुयान्ति ।। १६३ ॥
पतिव्रताव्रतं सत्यं, तीव्र निःसङ्गताव्रतम् । उभे आराधयिष्यामस्तवानुगमलीलया ॥ १६४ ॥ एवमुक्तवतीः प्रीत्या, प्रेयसी: श्रेयसीस्तराः । परं परममित्युक्त्वा, धन्यस्ता अभ्यनन्दयत् ॥ १६५ ॥
ARRARAUAYA8A82828282828282888
॥ २३७॥