________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
यूयम् 'श्रृङ्गारवाहिन्यः' श्रृङ्गाराणां वाहिन्य: वाहिकाः । पक्षे-नद्यः । कथम्भूताः ? 'गम्भीराः' गम्भीरहृदयाः । नदीपक्षे-गहनाः । 'रसैः' विलासरसैः । पक्षे-जलैः । 'पूरिताः' पूर्णाः । किन्तु । 'स्वयं' आत्मना । 'सत्त्वाक्षिप्ता: इव' मम सत्त्वेन आक्षिप्ताः आकृष्टाः इव । 'पथदेशिन्यः' मार्गदात्र्य: । 'अभूवन्' बभूवुः । अत्र 'अभूवन्' इति स्थाने 'अभूत्' इत्युचितं प्रतिभाति ॥ १५७ ॥
तदहं वरिवस्यामि, तपस्यायै जिनेश्वरम् । भवतीषु भवन्तीषु, भवतीराय कारणम् ॥ १५८ ॥
'तत् तस्मात् । 'भवतीष' युष्मास । 'भवतीराय' संसारतटपारगमनाय । 'कारणं' निदानम् । 'भवन्तीषु' जायमानासु । अहम् । 'तपस्याय' संयमाय । 'जिनेश्वरं' अर्हन्तम् । 'वरिवस्यामि' सेवे पर्युपासे || १५८ ॥
निशम्येति वचो रुक्षं, तमूचुः प्रणयात् प्रियाः । नर्म संवर्मितं कर्म, न शर्म प्रजिघांसति ॥ १५९ ॥
'इति' उपर्युक्तम् । 'रुक्षं' स्नेहरहितं संसारत्यागेच्छापूर्णम् । 'वचः' धन्यवचनम् । 'निशम्य' श्रुत्वा । 'तं' धन्यं पतिम् । 'प्रणयात्' स्नेहात् । 'प्रियाः कान्ताः । 'उचः' वदन्ति स्म । 'नर्मसंवर्मितं' नर्मणा-लीलया संवर्मितं सहितम। 'कर्म' वचनरूपं कर्म । 'शर्म' सौख्यम् । न प्रजिघांसति न हन्तुमिच्छति ॥ १५९ ॥
मूलं धर्मार्थकामानां, स्वयमेवोपलालिताः । कुतः कान्त ! निराधाराः, श्रियः कान्ताश्च मोक्ष्यसि ? ।। १६०॥
'कान्त' हे प्रिय । 'धर्मार्थकामानां' त्रिवर्गस्य । 'मूलं' मुख्यकारणम् । अनाविष्टलिङ्गत्वात् मूलमेव । 'स्वयमेव' आत्मनैव । 'उपलालिताः' परिपोषिताः । 'निराधाराः' निराश्रयाः । 'श्रियः' सम्पत्ती: । 'कान्त' हे स्वामिन् । 'प्रियतमाः' कान्ताः । चः समुच्चये । 'कुतः' कथम् । 'मोक्ष्यसि मोक्तमिच्छसि ? ।। १६० ।।
ARRARAUAYA8A82828282828282888
॥ २३६॥