________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
अहो आश्चर्ये । कातराः अपि भीताः अपि नराः । 'सङ्ग्रामवार्तां' युद्धवार्ताम् । 'आवर्तयन्ति' पुनः पुनः कथयन्ति । किन्तु । ‘निःस्वानोद्दामसांराविणे' निःस्वानेन शब्देन उद्दामं भयानकं सांराविणं तुमुलं यत्र तस्मिन् । 'रणे' युद्धे । 'न श्वसन्ति अपि' श्वासमपि न गृहणन्ति । युद्धवार्ताकथकाः अन्यान् युद्धार्थं प्रेरयन्ति किन्तु युद्धे प्रारब्धे स्वयं श्वाससमयमात्रमपि न तिष्ठन्ति । तथा यूयमपि संयमवार्तारसिका एव न पालकाः इति भावः ॥ १५३ ॥
परं प्रति प्रवदतां, संयमः सुकरः परम् । न सूर्यमण्डलस्येव, समीपेऽप्युपवेशनम् ॥ १५४ ॥
'परं प्रति' अन्यं प्रति । 'प्रवदतां' प्रेरणां कुर्वतां नराणाम् । 'संयमः' त्यागधर्मः । 'सुकरः' सुसाध: । 'परं' परन्तु । 'सूर्यमण्डलस्य इव रविमण्डलस्य इव संयमस्य समीपे' पार्श्वे । 'उपवेशनमपि' अवस्थानमपि न सुकरम् ॥ १५४ ॥
प्राणेश ! चारुचारित्र - चारश्चेत् सुकरस्तदा । भोगव्यासमपास्याशु, स्वयमासेव्यते न किम् ? ॥ १५५ ॥ 'प्राणेश' हे हृदयेश्वर ! 'चेत्' यदि । 'चारुचारित्रचारः' मनोरमचारित्रचर्या । 'सुकरः' सुसाधः । ' तदा' तर्हि । 'भोगव्यासं ' विलासविस्तरम् । 'अपास्य' सन्त्यज्य 'स्वयं' आत्मना। 'किं न आसेव्यते' कथं न आराध्यते सः संयमः ? ॥ १५५ ॥
धन्यंमन्यस्ततो धन्यः, प्रमोदादाददे वचः । दिष्ट्या कल्याणि ! कल्याणि मद्भाग्यानि जयन्त्यहो ॥ १५६ ॥
'धन्यंमन्यः' आत्मानं धन्यं मन्यते इत्येवंशीलः । धन्यः । 'ततः ' प्रियावचः श्रुत्वा । 'प्रमोदात्' आनन्दात् । 'वचः 'वचनम् । 'आददे' स्वीकृतवान् । उवाच इत्यर्थ: । 'अहो' प्रमोदे। 'कल्याणि' हे कल्याणकारिणि प्रिये ! दिष्ट्या आनन्ददर्शने । 'कल्याणिमद्भाग्यानि ' कल्याणीनि कल्याणवन्ति च तानि मद्भाग्यानि च । 'जयन्ति' विलसन्ति ॥ १५६ ॥
यूयं श्रृङ्गारवाहिन्यो, गम्भीरा रसपूरिताः । अभूवन् पथदेशिन्यः, सत्त्वाक्षिप्ता इव स्वयम् ॥ १५७ ॥
328
पञ्चमः प्रक्रमः
।। २३५ ।।