________________
श्री
शालिभद्र महाकाव्यम्
GRERERE
भीरु ! भीरुः स ते भ्राता, तनुते तुण्डताण्डवम् । शारदीन इवाम्भोदः, सारदीनतया तया ॥ १५० ॥ 'भीरु' हे प्रिये । सः ते तव । 'भ्राता' बन्धुः शालिभद्रः । ' भीरुः' कातरः अस्ति । यः शारदीनः शरत्कालीनः । 'अम्भोदः इव' मेघ इव । 'सारदीनतया' साररहितत्वात् दीनता दैन्यं तया । 'तुण्डताण्डवं' तुण्डे मुखे- प्रारम्भे एव तुडेन भाषणेन वा ताण्डवं नाट्यम् 'तनुते' करोति । शारदीनो हि जलद : आदौ गर्जनादि बहु करोति न तु वर्षति । यदुक्तम् "शरदि न वर्षति गर्जति, वर्षति वर्षासु निःस्वनो मेघः ।" तद्वत् शालिभद्रोऽपि इत्यर्थः ॥ १५० ॥
शालिभद्रः स ते बन्धु रहो तात्त्विकसात्त्विकः । स्वजानानुनयैषी च क्रमात् त्यजति वल्लभाः ।। १५१ ।।
अहो आश्चर्ये । स ते तव बन्धुः सहोदरः शालिभद्रः । तात्त्विक सात्त्विकः' तात्त्विकेन सत्यतया 'सात्त्विकः ' सत्त्वशाली । यः स्वजनानुनयैषी स्वजनानां अनुनयैषी अभिलाषेच्छुः । चकारः समुच्चये । 'वल्लभाः' पत्नीः । 'क्रमात् ' क्रमेण । 'त्यजति' परिहरति । अत्र वक्रोक्तिः । यदुक्तम्- “अन्यस्यान्यार्थकं वाक्यमन्यथा योजयेद् यदि । अन्यश्लेषेण काक्वा वा सा वक्रोक्तिस्ततो द्विधा ॥ १५१ ॥
तस्यां विहितमौनायां, दूनायामपि सर्वथा । तदीयपक्षपातेन, सप्तान्यास्तं प्रिया जगुः ॥ १५२ ॥ 'सर्वथा' सर्वप्रकारेण । 'दूनायामपि' दुःखितायामपि । 'तस्यां' सुभद्रायाम् । 'विहीतमौनायां' कृततुष्णीम्भावायाम् । 'अन्याः ' सुभद्रां विना अन्याः । सप्त प्रिया: प्रेयस्यः । तदीयपक्षपातेन' शालिभद्रसुभद्रापक्षपातेन । 'तं' धन्यम् 'जगुः ' उचुः ॥ १५२ ॥
कातरा अपि सङ्ग्राम - वार्तामावर्तयन्त्यहो । न श्वसन्त्यपि निःस्वानो - हामसांराविणे रणे ॥ १५३ ॥
KER
TRERER
पञ्चमः
प्रक्रमः
॥ २३४ ॥