________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
चारित्रग्रहणमनोरथात् । 'प्रेमहेम्नः' स्नेहसुवर्णस्य परीक्षायाम् । 'एकैकषपट्टिकां' एकशाणपट्टिकातुल्याम् । 'कन्दर्पधूर्तस्य' अधमकामस्य । 'सम्मोहे' सम्मोहने । 'मूलिकामिव' मोहनवल्लीमिव । 'तूलिकां' तूलनिर्मितशयनीयम् । 'एकैकां' एकामेकाम् । 'प्रेयसी' प्रियतमां च । हन्तः खेदे । 'मुञ्चति' त्यजति । 'तत्' तस्मात् । अहं दुःखपूरिता-दुःखपूर्णा । रोदिमीति शेषः ॥ १४५ ॥ १४६ ॥
धर्मवीरपथाध्वन्यः प्राह धन्यः सुधीनिधिः । य एवं कातरः स स्यात्, किं तृष्णादीर्घिकातरः ॥ १४७॥
'धर्मवीरपथाध्वन्यः' धर्मवीराणां पथि-मार्गे अध्वन्य:-प्रवासी । सुधीनिधिः' सुमतिशेवधिः । धन्यः प्राह' वदति य एवं कातर:-भीत: स्यात् सः किं 'तृष्णादीर्घिकातरः' तृष्णा-लोभः सैव दीर्घिका-वापिका तां तरतीत्येवंशील: स्यात्? ॥ १४७ ।।
अभ्यमित्रीणताभाजा-मपि सिंहावलोकितम् । नृणां पिशुनयत्येव, पशुत्वमिव मानिनाम् ॥ १४८ ॥
'अभ्यमित्रीणताभाजामपि' शत्रु प्रति संमुखं गच्छतामपि । 'नृणां' नराणाम् । 'सिंहावलोकितं' सिंहवत् पश्चात् विलोकनम् । गच्छन् हि सिंह: पश्चाद् विलोकते, 'पशुत्वमिव' पशुतातुल्यताम् । 'पिशुनयत्येव' कथयति एव । सिंहोऽपि पशुरेव । तद्वत् पश्चाद् विलोकनं पशुप्रकृतिरेव । सा च मानधनानां न शोभते इति भावः ॥ १४८ ॥
कामार्थयोरपि प्रोक्तं, दीर्घसूत्रः प्रणश्यति । ततः प्रसिद्धमेवैतद्, धर्मस्य त्वरिता गतिः ॥ १४९ ॥
'कामार्थयोरपि' कामार्थविषयेऽपि । 'प्रोक्तं' कथितम् । 'दीर्घसूत्रः' चिरक्रियः चिरेण कार्यं करोतीत्येवंशीलः । 'प्रणश्यति' नाशमुपयाति । 'दीर्घसूत्री विनश्यति' इति नीतिशास्त्रोक्तिः । 'ततः' तस्मात् । 'धर्मस्य त्वरिता गतिः' इति एतत् सूत्रं प्रसिद्धमेव ॥ १४९ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥२३३॥