________________
पक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
मनोज्ञनयनेन । 'श्रीश्रेणिकेन' नृपेण । 'ईक्षितां' 'विलोकिताम् । केन इव ? 'बाष्पापूर्णदृशा' बाष्पैः आपूर्णा दृग् नयनं यस्य तेन । 'चकोरकवरेणइव' चकोरपक्षिणा इव । इमां रसवीं-विलासरसयुक्तां मोहविषयुक्तां च पक्षे षडरसपूर्णभोजनं विषयुक्तम् । रसशब्दः विषार्थोऽपि । अयं भावः-विषमिश्रितां रसवीं यदा चकोर: पश्यति तदा रोदिति, अत्र चकोरस्थाने रुदन् श्रेणिकनृपः ग्राह्यः । 'इमां' भोगाङ्गभङ्गीम् । 'अन्तररुद्यविषां' मध्ये स्फुरद् विषां विषमिश्रितामित्यर्थः । 'मानशालिनृपतिः' मानशालिनां गौरवशालिनां नृणां नराणां पति: मुख्यः । श्रीशालिभद्रः । किलः निश्चयार्थे । 'सम्भावयामासिवान्' चिन्तयामासेत्यर्थः ॥ १६७ ॥ श्रीशालिचरिते धर्म-कुमारसुधिया कृते । श्रीप्रद्युम्नधिया शुद्धे, पञ्चमः प्रक्रमोऽभवत् ॥ १६८ ॥
इति श्रीकच्छवागडदेशोद्धारक-तपागच्छाचार्य-विजय कनकसूरि-प्रशिष्याचार्य विजयकलापूर्णसूरि-शिष्यमुनिश्री कलाप्रभविजयजी (विजयकलाप्रभसूरि)-शिष्य
मुनिश्री (पंन्यास) मुक्तिचन्द्रविजयजी शिष्य मुनिश्री (पंन्यास) मुनिचन्द्रविजयविरचितायां श्रीशालिभद्रमहाकाव्यस्य सानुवादटीकायां
पञ्चमः प्रक्रमोऽभवत् । इति श्रीशालिभद्रलीलायां पञ्चमः प्रक्रमः ।
828282828282828282828282828282828282
॥२३९॥