________________
पक्रमः
शालिभद्र महाकाव्यम्
828ASASA 8282828282828282828282828282
'विक्रमोपक्रमक्रमः' विक्रमस्य-पराक्रमस्य य: उपक्रमः आरम्भः तस्मिन् क्रमौ चरणौ यस्य सः । 'अहं' शालिभद्रः । 'वधूभिः' पत्नीभिः । 'देहमोहेन वा' शरीरस्नेहेन वा । 'कथं उपरुध्ये' कथं निवार्ये ? ॥ १३५ ॥
अग्निशौचानि चीराणि, वपूंषि च मनीषिणाम् । स्निग्धानि सुकुमाराणि, शुध्दयन्ति तपसाऽग्निना ॥ १३६ ॥
'मनीषिणां' विदुषाम् । 'स्निग्धानि' दृढानि । 'सुकुमाराणि' कोमलानि । 'चीराणि' वस्त्राणि । 'वषि' शरीराणि । च समुच्चये। 'अग्निशौचानि' अनलपवित्राणि । भवन्ति । 'तपसाऽग्निना' तपश्चर्यावह्निना । 'शुद्ध्यन्ति' तानि निर्मलीभवन्ति । पूर्वकाले एतादृशानि रत्नकम्बलानि अभवन्, यानि अग्नौ शुद्ध्यन्ति स्म । शरीरमपि तपसा अग्निना एव शुद्धयति इति भावः ॥ १३६ ॥
दुर्मोचमाग्रहं मत्वा, तनयस्येति कातरा । कालक्षेपचिकीः कामं, माता सुतमभाषत ॥ १३७ ॥
इति । 'तनयस्य' पुत्रस्य । 'दुर्मोचं' मोचयितुमशक्यप्रायम् । 'आग्रह' दीक्षाविषयकम् । 'मत्वा' ज्ञात्वा । 'कातरा' भयभीता । 'कालक्षेपचिकी:' कालविलम्बं कर्तुकामा । 'माता' भद्रा । 'सुतं' पुत्रम् । 'काम' नितान्तम् । 'अभाषत' कथयामास ॥ १३७ ||
स्वर्भोगै देवदन्तीव, सदैव सुखलालितः । नृगन्धशयनाहार-विहाराभ्यासमातनु ॥ १३८ ॥
हे वत्स ! त्वम् । 'देवदन्तीव' ऐरावणहस्तीव । 'सदैव' नित्यमेव । 'स्वर्भोगैः' दिव्यसुखैः । 'सुख-लालितः' सुखपूर्वकं लालितः असि । तस्मात् प्रथमम् । 'नगन्धशयनाहारविहाराभ्यासं' नृगन्धस्य नरगन्धस्य नरशयनस्य नराहारस्य नरविहारस्य च अभ्यासं प्रयत्नम् । 'आतनु' कुरु ॥ १३८ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ २३०॥