________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
उपश्रुतिमिव श्रुत्वा, वाचं वाचस्पतेः प्रति । प्रत्यहं प्रेयसीमेकामेकामुज्झाञ्चकार सः ॥ १३९ ॥
'उपश्रुतिमिव' उप-समीपे श्रूयतेऽस्यामुपश्रुति:-देवप्रश्न: देववाणीमिव । 'देवप्रश्न उपश्रुतिः' इति हैम्याम् । 'वाचं' मातृवाणीमिव । ' श्रुत्वा' आकर्ण्य । 'वाचस्पतेः प्रति' बृहस्पतेः समानः । यतः प्रतिनिधि० ।।२।७२।। इति सूत्रेण समानार्थे पञ्चमी । 'सः' शालिभद्रः । 'प्रत्यहं' प्रतिदिनम् । एकामेकाम् । 'प्रेयसी' प्रियाम् । 'उज्झाञ्चकार' त्यजति स्म ॥ १३९ ॥
विश्वचित्रे निजे सौख्ये, दत्तरेखाश्च हेलया । तूलिकास्तूलिकाः साक्षात्, सुसूक्ष्ममृदुलोमिकाः ॥ १४० ॥
'विश्वचित्रे' विश्वस्य-जगत: चित्रे आश्चर्यकारिणि । पक्षे चित्रे । निजे सौख्ये । हेलया लीलया । दत्तरेखा: दत्ताः छेदरूपाः रेखा: यासु ताः । चित्रकारपिच्छिकापक्षे दत्ता चित्रे रेखा याभिः ताः । 'सुसूक्ष्ममृदुलोमिकाः' अतिसूक्ष्मकोमलरोमिका: । चित्रकारपिच्छिकापि मृदुलोमिकैव भवति । 'साक्षात्' प्रत्यक्षम् । 'तूलिकाः' चित्रकारपिच्छिकाः । 'तूलिकाः' तूलनिर्मितशयनीयानि । तळाई इति भाषायाम् । चकारो भिन्नक्रमे । 'तत्याज' इति शेषः ॥ १४० ॥
इतश्चेह पुरे देव-कनीनामकनीयसी । कनीयसी स्वसा शाले: सुभद्रा नाम विद्यते ॥ १४१ ॥
अथ शालिभद्रभगिनी सुभद्रा प्रसङ्गः । इतश्च । 'इह' राजगृहे । 'पुरे' नगरे। 'देवकनीनां' सुरकन्यानाम् । 'अकनीयसी' ज्येष्ठा, देवाङ्गनाऽधिका इत्यर्थः । 'शालेः' शालिभद्रस्य । कनीयसी' लध्वी । 'स्वसा' भगिनी सुभद्रा नाम विद्यते ॥ १४१ ॥
तत्प्राणनाथः पुण्याम्भ-स्तल्लिका नृमतल्लिका । श्रीमल्लिका वसन्तर्तु-र्धन्यः सौजन्यभूरभूत् ॥ १४२ ॥ 'तत्प्राणनाथः' तस्याः सुभद्रायाः प्राणनाथः पतिः । 'पुण्याम्भस्तल्लिका' सुकृतजल तटाकिकातुल्यः । 'नृमतल्लिका'
satasa8RSR88RSONASRSASASASRSANASNA
॥ २३१॥