________________
श्री
शालिभद्र महाकाव्यम्
TRERERY
प्रक्रमः
('सढ' इति भाषायाम्) कथं स्यात् ? 'पद्मनालैः' कमलनालैः । 'गजालानं' हस्तिबन्धनं कथं स्यात् ? 'पद्मनालैः ' पञ्चमः कमलनालैः । 'गजालानं' हस्तिबन्धनं कथं स्यात् ? 'केतकीदलैः' क्रकचच्छदपणै: । 'सन्नाहः ' कवचः कथं स्यात् ? ॥ १३० ॥ 'कुकूलाग्नेः' तुषानलस्य । 'विलेखनं' कर्षणम् । 'चम्पककोरकैः' हेमपुष्पक-कलिकाभिः किंवा स्यात् ? 'कर्पूरफालिकाभिः' कर्पूराणां घनसाराणां फालिकाभिः खण्डैः । 'प्रासादशिखरं सौधशृङ्भागः । किंवा भवेत् ? ॥ १३१ ॥ तव अङ्गकैः शरीरैः । 'व्रतं ' दीक्षारूपं किं साध्यते - आराध्यते ? 'अङ्ग' इति सम्बोधनार्थमव्ययम् । चारु 'चातुरीचतुरानन' चातुर्यां चतुरानन ब्रह्मणा तुल्य । 'जितानङ्ग' जितमदन ! पुत्र ! 'चिरं' दीर्घकालम् । 'चारु' सुन्दरतया, क्रिया-विशेषणमिदम् । 'विचारय' चिन्तय ॥ १३२ ॥
शालिः प्राहाम्ब ! सन्देहे, श्रियां सांयात्रिका यदि । त्यक्त्वा पुत्रकलत्रादि, विशन्ति क्षारवारिधौ ॥ १३३ ॥ ततः प्रशमपीयूष - सागरं विजिगाहिषुः । आत्यन्तिकैकान्तिकार्थ सिद्धये व्यवसायवान् ॥ १३४ ॥ विपश्चिन्निश्चितश्चित्ते, विक्रमोपक्रमक्रमः । वधूभिरुपरुध्येऽहं देहमोहेन वा कथम् ॥ १३५ ॥
xxx
'शालि:' शालिभद्रः । 'प्राह' वदति । 'अम्ब' हे मातः । श्रियां' सम्पत्तीनाम् । 'सन्देहे' संशये । 'यदि' चेत् । 'सांयात्रिका: ' पोतवणिजः । 'पुत्रकलत्रादि सुतभार्यादि। त्यक्त्वा' विहाय । 'क्षार वारिधौ' क्षारे लवणसमुद्रे । 'विशन्ति' प्रविशन्ति ॥ १३३ ॥|| 'ततः ' तस्मात् । 'प्रशम- पीयूष सागरं' क्षमासुधाब्धिम् । 'विजिगाहिषुः ' विगाहनेच्छुः । 'आत्यन्तिकैकान्तिकार्थसिद्धये' आत्यन्तिकः एकान्तिकश्च यः अर्थः चतुर्थ पुरुषार्थ: मोक्षः तस्य सिद्धये प्राप्तये । 'व्यवसायवान्' कृतनिश्चयः ॥ १३४ ॥ ' विपश्चिन्निश्चितः ' विद्वद्भिः निर्णीतः परीक्षितः इत्यर्थः । 'चित्ते' मनसि ।
।। २२९ ॥