________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'कृपालुना' दयालुना । 'त्वत्पित्रा' गोभद्रेण । अहम् । 'त्वदालम्बा' त्वदाधारा । 'युक्त्या' विचारपूर्वकम् । 'मुक्ता' गृहवासे स्थापिताऽस्मि । कथं निराधारां-निराश्रयां माम् । 'मुमुक्षुः' मोक्षमिच्छु: । 'असि' वर्तसे? 'वद' ब्रूहि ॥ १२७ ।।
नृकुञ्जरस्य ते भाग्या-गलितस्य प्रिया इमाः । सुवृत्तभोगसौभाग्य-श्चतुराः सुप्रतिष्ठिताः ॥ १२८ ॥ रोधाय विहिताः प्रौढा, धात्रा द्वात्रिंशदर्गलाः । धनाबन्धाः समुल्लङ्घ्य, कथं तात ! प्रयास्यसि ? ॥१२९ ॥
'तात' हे प्रिय पुत्र ! 'नृकुञ्जरस्य' नरहस्तिनः । 'भाग्यार्गलितस्य' दैवबद्धस्य । 'ते' तव । 'इमाः प्रियाः' कान्ताः । 'समुल्लुद्ध्य' अतिक्रम्य । कथं प्रयास्यसि गमिष्यसि । कथम्भूता: ता:? 'सुवृत्तभोगसौभाग्याः' सुवृत्तैः सदाचारैः भोगैश्च सौभाग्यां यास ताः । अर्गला पक्षे सुवर्तुलभोगसौभाग्याः । 'चतुराः' दक्षाः । 'सुप्रतिष्ठिताः' सुकुलजाः । पक्षे-चतुरासु हस्तिशालासु, सुप्रतिष्ठिता: सुबद्धाः । 'चतुराः' इति अत्र अर्गलापक्षे विसर्गाभावः विज्ञेयः । 'धात्रा' विधात्रा । 'रोधाय' अवरोधाय । 'विहिताः' निर्मिताः । द्वात्रिंशत् अर्गलाः शृङ्खलाः । 'घनाबन्धाः' दृढाश्लेषाः । पक्षे दृढबन्धनाः इमाः प्रियाः इति सण्टङ्कः ॥ १२८ ॥ १२९ ॥
रम्भास्तम्भैः कथं सौधं, नेत्रवस्त्रैश्च नौपट: । पद्मनालैर्गजालानं, सन्नाहः केतकीदलैः ॥ १३० ॥ विलेखनं कुकूलाग्नेः, किंवा चम्पककोरकैः । कर्पूरफालिकाभिर्वा, प्रासादशिखरं भवेत् ॥ १३१ ॥ विचारय चिरं चारु, चातुरीचतुरानन । साध्यते किं जितानङ्ग, व्रतमङ्ग ! तवाङ्गकैः ॥१३२ ॥ (विशेषकम् ) 'रम्भास्तम्भैः' कदलीस्तभैः । कथं सौध-प्रासादः स्यात् ! 'नैत्रवस्त्रैः' सुकुमारवसनैः । 'नौपट:' प्रवहण-पट:
828282828282828282828282828282828482
॥ २२८॥