________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
हा ! कि राजा मयाऽनायि, राजमान्द्यमिवात्मनः । उदघोषि पुनः किं वा, महावात इवाहितः ॥ १२४॥ 12
हा खेदे । 'आत्मनः' स्वस्य । 'राजमान्द्यमिव' क्षयरोगः इव । 'राजा' श्रेणिकः । मया । किं आनायि कथं आनीत:? किंवा । 'महावातः इव' झञ्झावातः इव । 'अहितः' अकल्याणकरः । 'उदघोषि' राजा आगतः' इति शालिभद्राग्रे उद्घोषितम् ? ॥ १२४ ॥
साक्षादजाकृपाणीयमनणीयो विचेष्टितम् । क्षमस्व मे हृदाश्वास ! राजश्वासप्रपीडितः ॥ १२५ ॥
'राजश्वासप्रपीडित' हे राज्ञः श्वासैः प्रपीडितः । 'हृदाश्वास' हृदयाधार ! पुत्र ! 'मे' मम । 'साक्षात्' प्रत्यक्षम् । 'अजाकृपाणीयं' अजा छागिका कृपाण: क्षुरिका अजाकृपाणः तस्य इदं अजाकृपाणीयम् । अजाकृपाणीयन्यायस्तु अयम्एका छागिका वधार्थं सौनिकेन आनीता । किन्तु क्षुरिका भूमिरेण्वन्तर्गता न दृश्यते । तदा छागिकया एव स्वपादैः ।। भूमिः विलिखिता । रेणुमध्याच्च क्षुरिका निर्गता । तयैव क्षुरिकया सौनिकेन तस्याः वध: विहितः । तद्वत् । 'अनणीयः' गुरुतरम् 'विचेष्टितं' वर्तनम् । 'क्षमस्व' सहस्व ॥ १२५ ॥
दुग्धे पूतरका न स्युः, घृते तांस्तु त्वमीक्षसे । यदस्मिन् सुखसाम्राज्ये, दुःखदोषान् विभाषसे ॥ १२६ ॥
'दुग्धे' पयसि । 'पूतरकाः' जलकृमयः । 'पोरा' इति भाषायाम् । 'न स्युः न भवेयुः । 'तु' किन्तु । 'घृते' सर्पिषि । 'तान्' पूतरकान् । 'ईक्षसे' त्वं पश्यसि । यत् । 'अस्मिन् सुखसाम्राज्ये' देवदत्तसुखपूर्णसाम्राज्ये । 'दुःखदोषान्' दुःखानि दोषांश्च तान् । 'विभाषसे' कथयसि ॥ १२६ ॥
त्वत्पित्राऽहं त्वदालम्बा, मुक्ता युक्त्या कृपालुना । कथं वद निराधारां, मुमुक्षुरसि वत्स ! माम् ।। १२७ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ २२७॥