________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
लोकोत्तराणां कोपाय, सर्वसामान्यसत्कृतिः । यथा सकलदेवानां, मूर्ती वर्णकविस्तरः ॥ १२० ॥
'लोकोत्तराणां' लोकेषु उत्तराणां उत्तमानाम् । 'सर्वसामान्यसत्कृतिः' सर्वसाधारणसम्मानः । 'कोपाय' रोषाय भवति । यथा । 'सकलदेवानां' सकलानां कलया प्रभावकलया सहितानां देवानां सप्रभावाणां स्वयम्भूदेवतानां वा । 'मूतौं' प्रतिमायाम् । 'वर्णकविस्तरः' वर्णकैः चन्दनाद्यैः विस्तर: रचना-अङ्गरचना कोपाय भवति ॥ १२० ॥
सुकुमारा बहिर्देहे, भवन्ति किल कोटिशः । अपमानाशनेघातैर्भिद्यते हृदयं न तु ॥ १२१ ॥
'बहिः' बाह्यभागे । 'देहे' शरीरे । 'सुकुमाराः' सुकोमला: । किल: निश्चये । कोटिशः अनेककोटिसङ्ख्याकाः जनाः । 'भवन्ति' वर्तन्ते । 'तु' परन्तु | 'अपमानाशनेः' अपमान वज्रस्य । 'घातैः' प्रहारैः । 'हृदयं' तेषामन्तःकरणम् । 'न भिद्यते' न स्फुट्यते ।। १२१ ॥
शालिभद्रः सुकुमारः, सबाह्याभ्यन्तरो ध्रुवम् । स्वामिश्रुतेर्मनो दून, यस्य निश्वासतोऽङ्गकम् ॥ १२२ ॥
शालिभद्रः । सबाह्याभ्यन्तरः' सह बाह्याभ्यन्तराभ्यां वर्तते यः सः । 'ध्रुवं' निश्चितम् । 'सुकुमारः' सुकोमलः । यस्य मन:-चेतः । 'स्वामिश्रुतेः' 'स्वामी' इति श्रुतेः श्रवणात् । 'दून' दुःखितम् । अङ्गकं' शरीरं च । 'निश्वासतः' श्रेणिकनिश्वासतः दूनम् । बाह्यान्तराभ्यां शरीरमनोभ्यां शालिभद्रः दून: अतः सः स बाह्याभ्यन्तर सुकुमारः इत्यर्थः ॥ १२२ ।।
अथ श्रीशालिभद्राऽम्बा, शालिकेदारभूरिख । नेत्रनीरप्लवापूर्णा, विवर्णाऽवददीदृशम् ॥ १२३ ॥
अथ । 'श्रीशालिकेदारभूरिव' शालिव्रीहिक्षेत्रपृथ्वीव । 'श्रीशालिभद्राऽम्बा' श्रीशालिभद्रस्य अम्बा-माता । 'नेत्रनीरप्लवापूर्णा' नयनजलपूरपूर्णा । 'विवर्णा' विच्छाया । 'इदृशं' अग्रे वक्ष्यमाणम् । 'अवदत्' उवाच ॥ १२३ ॥
828282828282828282828282828282828282
॥ २२६ ॥