________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'वह्निनिक्षिप्तं' अग्निनिहितम् । 'सुवर्णं' कनकम् । 'वर्णिकावृद्धि' वर्णवृद्धिम् । 'अश्नुते' प्राप्नोति । 'मौक्तिकं' मुक्ताफलं पुन: । 'उष्णश्वासाऽभियोगेऽपि' उष्णश्वाससम्पर्केऽपि । 'म्लानिं' विच्छायताम् । 'ईयते' गच्छति ॥ ११६ ॥
सामान्यवसनं क्षारशिलाकुट्टाककुट्टनैः । दीप्यते देवदूष्यं तु, नरस्पर्शेन दूष्यते ॥ ११७ ॥
'सामान्यवसनं' साधारणवस्त्रम् । क्षारशिला-कुट्टाक कुट्टनैः' क्षारः (साबु इति भाषायाम्), शिला-प्रस्तर:, कुट्टाक:काष्ठदण्डः (धोको इति भाषायाम) तेषां कुट्टनैः स्फोटनैः । 'दीप्यते' शुभ्रीभवति । 'देवदूष्यं' देवसम्बन्धि वस्त्रम् । 'तु' किन्तु । 'नरस्पर्शेन' मनुष्यस्पर्श-मात्रादपि । 'दूष्यते' दूषितं भवति ॥ ११७ ॥
राजोच्छिष्टान्नभाजोऽपि, हृष्यन्ति श्रीकरीधराः । जुगुप्सन्ते द्विजाः शुक्लाः , भक्तराज्ञां प्रतिग्रहम् ॥ ११८ ॥
'श्रीकरीधराः' श्रीकरीं धारयन्तीत्येवंशीला: राज्ञां पार्श्ववर्तिनः पुरुषाः । 'छडीदार' इति भाषायाम् । 'राजोच्छिष्टान्नभाजोऽपि' राजभिः उच्छिष्टं अन्नं भजन्ति भुञ्जते इत्येवंशीला: अपि । 'हृष्यन्ति' प्रमोदन्ते । 'शुक्लाः ' शुक्लजातीयाः शुद्धाः वा । 'द्विजाः' ब्राह्मणाः । 'भक्तराज्ञां' भक्तानां राज्ञाम् । 'भक्तराजानाम्' इति अत्र समस्तपदे शुद्धं पदम् । 'भक्तराज्ञाम्' इति पदं चिन्त्यम् । 'प्रतिग्रहं' अन्यदत्ताऽऽदानम् । 'जुगुप्सन्ते' जुगुप्सां कुर्वन्ति । यदुक्तं स्मृतौ-"राजप्रतिग्रहो घोरो, विषमिश्रमधूपमः । पुत्रमांसं वरं भुक्तं, न तु राजप्रतिग्रहः" ॥ ११८ ॥
राज्ञो दास्येऽपि तष्यन्ति, प्रायेण प्राकता जनाः । न्यत्कारं राजसत्कार, मेने गोभद्रनन्दनः ॥ ११९ ।।
'राज्ञः' नृपस्य । 'दास्येऽपि' सेवकत्वेऽपि । 'प्राकृताः' साधारणाः । 'जनाः' नराः । 'प्रायेण' बहुधा । 'तुष्यन्ति' तोषं गच्छन्ति । 'गोभद्रनन्दनः' शालिभद्रस्तु । 'राजसत्कारं' नृपसंमानमपि । 'न्यत्कारं' धिक्कारम् । 'मेने' मनुते स्म ।। ११९ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ २२५ ॥