________________
श्री शालिभद्र
महाकाव्यम्
स्पर्शनेन । 'अरिष्टं' अमङ्गलम् । 'सूचयति एव' दर्शयति एव । यथा काक: मस्तकस्थ: अमङ्गलं सूचयति तथा । मम स्वामिस्वीकारः अमङ्गलमेव सूचयति इति भद्रां प्रति शालिभद्रस्य कथनम् ॥ ११२ ॥
सुमनःसौरभस्वादलोभादपि शिरः स्थिता । प्राणत्यागाय मे राज - सत्ताऽसौ पद्मनागिनी ॥ ११३ ॥
'सुमन:सौरभस्वादलोभादपि सुमनसा गोभद्रदेवेन निर्मितः सौरभस्वादः सुगन्धपूर्ण: स्वादः यस्य तस्य अन्नस्य लोभादपि। नागिनीपक्षे-पुष्पसुरभिस्वादेच्छातोऽपि । आगच्छन्ति एवं पुष्पसौरभेण नागाद्या: । 'शिरः स्थिता' मस्तकस्था । शिरःश्रिता' इत्यपि पाठ: । 'असौ पद्मनागिनी राजसत्ता' पद्याभिद्यसर्पिणी तुल्या राजसत्ता श्रेणिकशासनम् 'मे' मम । 'प्राणत्यागाय' मरणाय । वर्तते इति शेषः ॥ ११३ ॥
इत्यात्मीयमभिप्रायं, सायं दुष्कर्मणामिव । मातुः प्रकाशयामास, शालिः पालिरिव श्रियाम् ॥ ११४ ॥ इति दुष्कर्मणां-पापानाम् । 'सायमिव' अस्त समयमिव । 'आत्मीयं' स्वकीयम् । 'अभिप्रायं' मनोगतभावम् । ‘श्रियां' लक्ष्मीणाम् । ‘पालिवि' सेतुरिव । शालि: । 'मातुः ' भद्रायाः पार्श्वे । 'प्रकाशयामास' प्रकटीचकार ॥ ११४ ॥ चरणाः प्रस्तरेणाऽपि स्पृष्टाः स्पष्टतरद्युतः । नेत्रं नेत्राञ्चलस्पर्शा दपि दोदूयतेतराम् ॥ ११५ ॥
'प्रस्तरेणाऽपि ' अश्मनाऽपि । 'स्पृष्टाः' घृष्टाः । 'चरणाः' पादा: । 'स्पष्टतरद्युतः ' घर्षणात् स्फुटतरप्रभाः भवन्ति । 'नेत्रं' नयनं पुन: । ‘नेत्राञ्चलस्पर्शादपि सुकुमारवस्त्रविशेषाञ्चलस्पर्शनादपि । 'दोदूयतेतरां' अतिदुःखीभवति ॥ ११५ ॥
सुवर्णं वह्निनिक्षिप्तं, वर्णिकावृद्धिमश्नुते । उष्णश्वासाभियोगेऽपि, मौक्तिकं म्लानिमीयते ॥ ११६ ॥
SANASANA
पञ्चमः प्रक्रमः
॥ २२४ ॥