________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
राजाज्ञा गृहगोधेव, हिंसाध्याने धुरंधरा । अकस्मात् पतिता मूनि, मातः ! सन्तापसूचिका ॥ ११०॥
'हिंसाध्याने' वध-विचारे । 'धुरंधरा' तत्परा । 'गृहगोधा इव' गृहगोलिका इव । 'गरोली' इति भाषायाम् । 'मूनि' शिरसि । 'अकस्मात्' सहसा । 'पतिता' स्रस्ता । 'राजाज्ञा' नृपादेशः । 'सन्तापसूचिका' विपत्तिज्ञापिका अस्ति । मस्तके पतिता गृहगोलिका अशुभा गण्यते तथा राजाऽऽज्ञाऽपि अशुभेत्यर्थः । यदुक्तम्-श्वेता पल्ली (गृहगोलिका) शिरसि पतिता धनिनो दारिद्रयं कुरुते दरिद्रस्य लक्ष्मी च ॥ ११० ॥
सूरावज्ञारुचिर्नानारूपी चक्रे शिरः स्थितः । कृकलासो नृपादेशः, शिरोर्तिमनिवर्तिकाम् ॥ १११ ॥
'सूरावज्ञारुचिः' सूराणां अवज्ञारुचि: यस्मिन् स: नृपादेशः । कृकलासपक्षे-सूरस्य-सूर्यस्य अवज्ञारुचि यस्य सः । कृकलासस्य नामान्तरमपि प्रतिसूर्यः । स हि सूर्यस्य प्रतीप:-विपरीतः । 'नानारूपी' अनेकाकारधारी । 'शिरःस्थितिः' मस्तकस्थः । 'ककलासः' शयानकः । 'काचींडो' इति भाषायाम् । 'नृपादेशः' राजाज्ञा । अनिवर्तिकां' अविरमणशीलाम् । शिरोति मस्तकपीडाम् । 'चक्रे' कृतवान् ॥ १११ ॥
आत्मानं घोषयन्नुच्चैः, स्वामिस्वीकारवायसः । अरिष्टं सूचयत्येव, शिरसः स्पर्शनेन मे ॥ ११२ ॥
'उच्चैः' उच्चशब्देन । 'आत्मानं' स्वम् । 'घोषयन्' ज्ञापयन् । 'स्वामिस्वीकारवायसः' स्वामिस्वीकाररूप: वायसः काकः । आगतः काकः किल का... का... का... इति महता शब्देन स्वं घोषयति एव । अतः एव 'आत्मघोषः' इति तस्य नामान्तरम् । 'काकोऽरिष्ट: सकृत्प्रजः । आत्मघोषश्चिरजीवी' इति हैम्याम् । 'मे' मम । 'शिरसः' मूर्ध्नः ।
828282828282828282828282828282828482
॥ २२३॥