________________
पक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
'जनानां' सामान्यनराणाम् । 'शर्कराः' कर्करा: 'पद्याः' पादवेधकाः । पादौ विध्यन्ति इति पद्याः । विध्यत्यनन्येन ७१२८॥ इत्यनेन य: प्रत्ययः । हिम-हति-काषि-ये पद् ।३।२।९६॥ इत्यनेन च पादस्य 'पद्' इति आदेशः । 'मृदूनां' सुकुमाराणां जनानां तु । 'शालितन्दुलाः' अक्षतकणा: अपि । पद्या:-पादवेधकाः भवन्ति एवम् । 'अन्येषां' साधारणजीवानाम्। 'दुःखं' सुखाभाव: । 'विरक्त्यै' निर्वेदाय भवति । किन्तु । 'कुशाग्रीयधियां' सूक्ष्मबुद्धिमताम् । 'सुखमपि' पञ्चेन्द्रियविषयोपभोगोऽपि किल विरागाय भवति ॥ १०७ ॥
मातर्माऽतः परं ज्ञासीः, गुरु वैराग्यकारणम् । स्वाजन्ये लघुके पार-वश्यं हि नरकस्य यत् ॥ १०८ ॥
'मातः' हे अम्ब ! । 'अतः परं' पारवश्यात् अन्यत् । 'गुरु' महत् । 'वैराग्यकारणं' निर्वेदनिबन्धनम् । 'मा ज्ञासीः' मा जानीहि । 'यत्' यस्मात् । 'लघुके' तुच्छे-अल्पे । 'स्वाजन्ये' स्व-अजन्ये-निजोपद्रवे 'अजन्यमीतिरुत्पातः' इति हैम्याम् । हि: निश्चये । 'नरकस्य' कुत्सितनरस्य । कुत्सिताऽज्ञाते ७।३।३॥ इत्यनेन कुत्सितार्थे क: प्रत्ययः । 'पारवश्यं' पराधीनता वैराग्यकारणं भवति । अल्पोपद्रवे जाते सामान्यजनानामपि पराधीनता वैराग्यकारणं भवति तर्हि शालिभद्रस्य का कथा ? ॥ १०८ ॥
कल्याणमौलौ श्रीवीर-स्वाम्यादेशे शिरःस्थिते । कथंसुस्थितकप्राय, राजते राजशासनम् ॥ १०९ ॥
'कल्याणमौलौ' कल्याणेषु मङ्गलेषु मौलि: मुख्यः तस्मिन् । पक्षे-सुवर्णमुकुटे । 'श्रीवीरस्वाम्यादेशे' श्री महावीरजिनाज्ञायाम् । 'शिर:-स्थिते' मस्तकस्थायिनि सति । 'सुस्थितकप्रायं' सुस्थितकतुल्यम् (सुस्थिक-सूथियुं 'इंदुणी' इति भाषायाम्) 'राजशासनं' श्रेणिकनृपाज्ञा । 'कथं राजते' मस्तके कथं शोभते ? ॥ १०९ ॥
ARRARAUAYA8A82828282828282888
॥ २२२ ॥