________________
श्री
शालिभद्र महाकाव्यम्
FRERER
उच्छिष्टं क्रियते यत्तु, भूपभूतै निरङ्कुशैः । निशाभोज्यमिव त्याज्यं, वैभवं तद्विवेकिना ॥ १०४ ॥ यत्तु । 'निरङ्कुशैः उच्छृङ्खलैः । 'भूपभूतैः' नृपप्रेतैः । 'उच्छिष्टं' भुक्तशेषत्वात् व्यर्थम् । 'क्रियते' विधीयते । तद् वैभवं सम्पत्ति: । 'विवेकिना' विवेकसहितेन विदुषा । 'निशाभोज्यमिव' रात्रिभोजनमिव । 'त्याज्यं' हेयम् । यदुक्तं योगशास्त्रे श्रीहेमचन्द्राचार्यै:- अन्नं प्रेत-पिशाचाद्यैः, सञ्चरद्भिर्निरङ्कुशैः । उच्छिष्टं क्रियते यत्र तत्र नाद्याद्दिनात्यये
||३ / ४८ ॥ १०४ ॥
पराज्ञा भोगसौख्येषु, सर्वाङ्गसुभगेस्वपि । त्रसरेखेव रत्नेषु, महामहिमहानये ॥ १०५ ॥
'सर्वाङ्गसुभगेषु अपि सर्वाङ्गतया सम्पूर्णतया सुभगेषु प्रियेषु अपि । 'भोगसौख्येषु' संसारभोगसुखेषु । 'पराज्ञा' परस्य-अन्यस्य आज्ञा-आदेशः । 'रत्नेषु' हीरकेषु । त्रसरेखा इव । 'महामहिमहानये' उच्चरत्नमपि हानिकरं महिमाक्षयकरं च करोति ॥ १०५ ॥
घृतपूरेषु शूरः स्याद्, दुःखाय यदि कर्करः । सुखे स्त्यान इव प्राज्ये, न कथं भूभृदप्ययम् ॥ १०६ ॥
‘घृतपूरेषु' घृतवरेषु मिष्टान्नविशेषेसु । 'यदि' चेत् । 'दुःखाय' सुखापनोदाय 'कर्करः ' दृषत्खण्ड: । 'शूरः' समर्थः । 'स्यात्' भवेत् । तर्हि । 'स्त्याने' पिण्डीभूते । 'थीजेतुं' इति भाषायाम् । 'प्राज्ये इव' प्रकृष्टे आज्ये घृते इव । 'सुखे' शर्मणि । अयं भूभृदपि नृपः पर्वतश्चापि । कथं न दुःखाय शूरः स्यात् । कर्करोऽपि चेद् दुःखाय तर्हि पर्वतः कथं न ? ॥ १०६ ॥
जनानां शर्कराः पद्या, मृदूनां शालितन्दुलाः । विरक्त्यै दुःखमन्येषां कुशाग्रीयधियां सुखम् ॥ १०७ ॥
KER
पञ्चमः
प्रक्रमः
॥ २२१ ॥