________________
श्री
शालिभद्र
महाकाव्यम्
FRERERE
'लक्षणालीव' देहलक्षणश्रेणिरिव । 'मे' मम। 'सर्वसौख्यावहाऽपि सकलसुखप्रदाऽपि । 'सर्वसौख्यावहा अपि इत्यपि पाठः । अस्मिन् पाठे सन्धौ सति सप्ताक्षराणि भवन्ति अतः न सन्धिः क्रियते । 'लक्ष्मी' श्रीः । हा खेदे । 'मूर्ध्नि' शिरसि । 'काकपदेनेव' काकपदतुल्येन 'अन्यस्वामिशब्देन' अन्य: स्वामी इति शब्देन । 'निष्फला' फलहीना जाता । हीरके किल काकपदतुल्यकृष्णरेखा तस्य निष्फलत्वं करोति । शरीरे शुभलक्षणावली अपि काकपदतुल्यरेखया निष्फला भवति ॥ १०१ ॥
जात्यं तेजस्विनं प्रौढं, भोगाभोगं तुरङ्गमम् । अन्यस्वामीति नाम्नाऽपि शृङ्गेणेव त्यजाम्यहम् ॥ १०२ ॥
'जात्यं' जात्या उत्तमम् । 'तेजस्विनं' महस्विनम् । 'प्रौढं' श्रेष्ठम् । 'तुरङ्गममिव' अश्वमिव । "दूबलकन्ना बंकमुहा, घण आहार सरोष । जे हुई तुरियह पंच गुण, तेहज स्त्रीअह दोष ||" इति जात्याश्वलक्षणानि । 'भोगाभोगं' भोगस्य आभोगं विस्तरम् । अश्वपक्षे भोगेन शरीरेण आभोगः विस्तरः यस्य तम् । 'शृङ्गेण इव' भ्रमरेण इव । शिरसि शृङ्गभ्रमरः यस्य अश्वस्य स्यात् स त्यज्यते । 'अन्यः स्वामी' इति नाम्नाऽपि शब्देनाऽपि । अहं त्यजामि परिहरामि । यथा जात्याऽश्वोऽपि भ्रमरदूषितः त्यज्यते तथा 'अन्यः स्वामी' इति शब्ददूषितं भोगविस्तरमहं त्यजामीति भावः ॥ १०२ ॥
इयं विषयसामग्री, शुभा रसवतीव मे । उद्भुक्षिता परादेशा-नलैर्मातर्न रोचते ॥ १०३ ॥
'मात:' हे अम्ब ! 'शुभा' कल्याणी । 'रसवती इव' भोजनमिव । 'मे' मह्यम् । इयं विषयसामग्री- भोगसाधनम् । 'परादेशानलैः' अन्याऽऽज्ञाग्निभिः । 'उद्भुक्षिता' दग्धा 'न रोचते' न रुचि जनयति । सरसाऽपि रसवती अग्निदग्धा न रोचते तथा मह्यमपि दिव्याऽपि भोगसामग्री अन्याऽऽज्ञादग्धा न रोचते इति भावः ॥ १०३ ॥
KER
पञ्चमः
प्रक्रमः
।। २२० ॥