________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
सुखैः केचन तुष्यन्ति, निभृता एव तैः परे । उद्वेलाः सागरा केचि-दन्ये स्थिरतरोदकाः ॥ ९८ ॥
'केचन' लोका: । 'सुखैः' वैषयिकैः । 'तुष्यन्ति' आनन्देन उच्छलन्ति । 'परे' अन्ये लोकाः । 'तैः' सुखैः । 'निभृताः' शान्ताः सन्तोषवन्तः इत्यर्थः । एवः अवधारणे । अत्र दृष्टान्त:-केचित् उद्वेला:-उत्तरङ्गाः । 'सागराः' समुद्राः ।। 'अन्ये' अपरे । 'केचित्' सागरा: स्वयम्भूरमणादयः । 'स्थिरतरोदकाः' स्तिमितजला: सन्ति ॥ ९८ ॥
निसर्गेणैव तद्भोगा, अभिष्वङ्गाय नाम्ब ! मे । निर्वेदोभेदवेदस्य, प्रणवस्तु प्रणीयते ॥ ९९ ॥
'अम्ब' हे मात: ! 'तत्' तस्मात् । 'निसर्गेणैव' स्वभावेन एव । 'मे' मम । 'भोगाः' संसारसुखानि । 'न अभिष्वङ्गाय' न आसक्तये भवन्ति । 'निर्वेदोझेदवेदस्य' निर्वेदात् वैराग्यात् उद्भेदः आविर्भाव: वेदस्य संवित्ते:ज्ञानस्य यस्य सः तस्य । 'प्रणवः' ओङ्कारः । 'प्रणीयते' कथ्यते ॥ यथा वैराग्याविर्भूतसंवित्तेः पुरुषस्य ओङ्कारजापः एव मुख्यः न तु संसारभोगा: तथा ममाऽपि संसारभोगाः न आसक्तये इत्यर्थः ॥ ९९ ॥
साङ्गोपाङ्गाऽपि भोगाङ्ग-सामग्री मे तनूरिख । स्वामिश्रुत्या शिरोऽर्त्याऽसौ , पीड्यतेऽपीड्यते न हि ॥१०॥
'तनूरिव' शरीरमिव । 'मे' मम । 'साङ्गोपाङ्गाऽपि' सम्पूर्णाऽपि । तनूपक्षे-अङ्गोपाङ्गसहिताऽपि । 'भोगाङ्गसामग्री' सुखावयवसाधनम् । 'स्वामिश्रुत्या' स्वामी इति श्रुत्या-श्रवणेन । 'शिरोऽा' मस्तकपीडया । 'असौ' भोगसामग्री । 'पीड्यते' व्यथ्यते । न अपि हि असौ-भोगसामग्री । 'ईड्यते' स्तूयते ॥ १०० ॥
लक्ष्मीर्मे लक्षणालीव, सर्वसौख्यावहाऽपि हा । मूर्ध्नि काकपदेनान्य-स्वामिशब्देन निष्फला ॥ १०१॥
828282828282828282828282828282828282
॥ २१९॥