________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
तदीयपदवीपान्थ ! श्रीकल्याणाचलं कुलम् । विबुधानन्दनेन त्वं, नन्दनेन परिष्कुरु ॥ ८४ ॥
'तदीयपदवीपान्थ' पितृपथप्रवासिन् ! हे पुत्र ! । 'विबुधानन्दनेन' पण्डितानन्दकारिणा । नन्दनवनपक्षे-देवानन्ददायिना। 'नन्दनेन' पुत्रेण । पक्षे-नन्दनवनेन । त्वम् । 'श्री कल्याणाचलं' श्रीश्च कल्याणं च श्रीकल्याणे ते अचले स्थिरे यत्र तत् । पक्षे-कनकाचलम् मेरुं । 'कल्याणं कनकम्' इति हैम्याम् । 'कुलं' वंशम् । 'परिष्कुरु' अलङ्कुरु ॥ ८४ ॥
पूर्वं दीक्षाऽऽप्रदानान्मे, वत्स ! वात्सल्यनिष्क्रयम् । मातृभक्तिकलाकामधेनुव्रज ! चिरं व्रज ॥ ८५ ।।
'दीक्षाऽऽप्रदानात्' दीक्षायाः आप्रदानात् आदानात् ग्रहणात् । 'पूर्वं' प्रथमम् । 'मे' मह्यम् । 'वात्सल्यनिष्क्रयं' वात्सल्यस्य निष्कयं भाटकं मूल्यम् । देहि इति शेषः । 'मातृभक्तिकला-कामधेनुव्रज' मातृभक्तकला एव कामधेनुः तत्र व्रज गोकुलतुल्य हे पुत्र ! पश्चात् त्वम् । 'चिरं व्रज' प्रव्रज दीक्षां गृहाणेत्यर्थः । दीक्षाग्रहणात् पूर्वं वात्सल्यप्रत्युपकारं कुरु । पुत्रेण कुलमलङ्कृत्य दीक्षां गृहाणेति भावः ॥ ८५ ॥
सुश्राद्धधर्मप्रासादे, प्रतिमाभिविभूषिते । कल्याणकलशान् पश्चात्, न्यसेः पञ्चमहाव्रतान् ॥ ८६ ॥
'सुश्राद्धधर्मप्रासादे' सुश्राद्धधर्मः सुश्रावकधर्मः सः एव प्रासादः तस्मिन् । 'प्रतिमाभिः' श्रावकैकादशप्रतिमाभिः । प्रासादपक्षे-देवमूर्तिभिः । 'विभूषिते' मण्डिते । 'पश्चात्' तदनन्तरम् । 'कल्याणकलशान्' कनककुम्भतुल्यान् । 'पञ्चमहाव्रतान्' प्राणातिपातविरमणादीन् पञ्च । 'न्यसेः' स्थापये: ।। ८६ ।।।
एवं वयस औचित्याद्, धर्मोऽप्याहारवद् वरः । स्वीकृतः कृतिना रुच्या, परिणामेऽतिसुन्दरः ॥ ८७॥ 'एवं' प्रथमं श्रावकधर्मपालनेन । 'वयसः' अवस्थायाः । 'औचित्यात्' योग्यत्वेन । 'कृतिना' सुधिया । 'रुच्या'
satasa8RSR88RSONASRSASASASRSANASNA
॥२१५ ॥