________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
इच्छया । 'स्वीकृतः' अङ्गीकृत: । 'आहारवत्' अन्नवत् । धर्मः अपि । 'वरः' श्रेष्ठः । 'परिणामे' फले । 'अतिसुन्दरः' अति-मनोहर: स्यात् ॥ ८७ ॥
रूपश्रीरमृतप्राशराशश्रीर्जगतीदृशाम् । मूर्ता कल्याणसिद्धिस्ते, भाग्यसिद्धिः प्रसिद्धिभूः ॥ ८८ ॥ प्रौढमर्त्यश्रिया बाढो-पगूढः प्रतिवासरम् । दिव्यभोगश्रिया नव्यो-पायनैः परिचर्यसे ॥ ८९ ॥ कुलप्राकार ! सर्वाङ्ग-भोगरुद्ध ! कुमार ! तत् । विवेश त्वयि वैराग्यं, कया युक्तया सुरङ्गया ॥ ९०॥
(विशेषकम्) 'जगतीदृशां' जगन्नेत्राणाम् । 'जगती जगत्' इति हैम्याम् । 'अमृतप्रातराशश्रीः' सुधाप्रातर्भोजनसम्पत्तिः । 'रूपश्रीः' तव सौन्दर्यलक्ष्मीरस्ति । 'प्रसिद्धिभूः' कीर्तिस्थानम् । 'ते' तव । 'भाग्यसिद्धिः' सौभाग्यप्राप्तिः । 'मूर्ता' मूर्तिमती । 'कल्याणसिद्धिः' सुवर्णसिद्धिः मङ्गलसिद्धिः वा अस्ति ।। ८८ ॥ 'प्रतिवासरं' प्रतिदिनम् । 'प्रौढमर्त्यश्रिया' श्रेष्ठनरलक्ष्म्या । 'बाढोपगूढः' दृढालिङ्गित: असि । 'दिव्यभोगश्रिया' देवदत्तभोगलक्ष्म्या । 'नव्योपायनैः' नवीनप्राभृतैः । 'परिचर्यसे' सेव्यसे ॥ ८९ ॥ 'सर्वाङ्गभोगरुद्ध' सर्वाङ्गसम्बन्धिभिः भोगैः रुद्ध परिवृत ! । 'कुलप्राकार' वंशवप्र ! हे वत्स ! । 'तत्' तस्मात् । 'त्वयि' तव हदि । 'वैराग्यं' विरक्तिः । कया युक्त्या तर्करूपया । 'सुरङ्गया' भूच्छिद्रेण भूम्यन्तर्मार्गेण । 'सुरंग' इति भाषायाम् । 'विवेश' प्रविष्टम् ॥ ९० ॥
गौभद्रिणाऽथ गौर्भद्रा, भद्रां प्रत्यभिधीयत । धर्मरङ्गमहारङ्ग-भूमिरङ्गावलीकला ॥ ९१ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥ २१६॥