________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'कुलकाननकर्पूरद्रुम' कुलकानने कर्पूरद्रुम कर्पूवृक्षसम ! । 'सर्वाङ्गचङ्ग' सर्वाङ्गसुन्दर ! हे वत्स ! । त्वमपि । 'परिमलैरिव' सुगन्धैरिव । 'दानैः' धनादिवितरणैः । 'सर्वाशाः' सकलजनमनोरथान् । कर्पूरपक्षे-सकलदिशः । 'पूरय' पूर्णीकुरु ॥ ८० ॥
निन्दात्यागैर्जगद् वश्य, गीतैः पूजा फलोत्तरा । पित्रोभक्त्या महाधर्मः, सन्तोषात् परमं सुखम् ॥ ८१॥ | यथा सुखं सुखेनादस्तथाहि परमार्हतैः । दानशीलतपोभावाः, साध्यन्ते भोगशालिभिः ॥ ८२ ॥
यथा । 'निन्दात्यागैः' परपरिवादपरिहारैः । 'जगत्' विश्वम् । 'वश्यं' वशीभूतं स्यात् । 'गीतैः' स्तुतिभिः यथा । 'पूजा' प्रभु-पर्युपासना । 'फलोत्तरा' फलाधिका भवति । यदुक्तम्-सयं पमज्जणे पुण्णं, सहस्सं च विलेवणे । सयसाहस्सिआ माला, अणंतं गीयवाइए ॥" 'पित्रोः' जननीजनकयो: यथा । 'भक्त्या' सेवया । 'महाधर्मः' परमसुकृतं स्यात् । 'सन्तोषात्' निर्लोभात् यथा । 'परमं' उत्तमम् । सुखं स्यात् ॥ ८१ ॥ यथा च । 'अदः' इदम् । सुखं सुखेन-सुखदानेन स्यात् । तथाहि तेन प्रकारेण । 'भोगशालिभिः' भोगाढ्यैः । 'परमार्हतैः' परमैः आर्हतैः सुश्रावकैः । 'दानशीलतपोभावाः' चतुर्विधः धर्मः । 'साध्यन्ते' सेव्यन्ते ॥ ८२ ॥
त्वया सिंहकिशोरेण, कुलशैले स्वलङ्कृते । सुकृती स कृती कृत्यं, निजं चक्रे पिताऽपि ते ॥ ८३॥
'सिंहकिशोरण' पञ्चाननयूना । त्वया' पुत्रेण । 'कुलशैले' वंशगिरौ । 'स्वलङ्कृते' सुमण्डिते । 'सुकृती' पुण्यवान् । 'कुती' सुधी । 'ते' तव । 'पिताऽपि' जनकोऽपि । 'निजं' स्वम् । 'कृत्यं' कार्यम् । 'चक्रे' कृतवान् ॥ ८३ ।।
8282828282828282828282828282828888
॥२१४॥