________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
द्वेधा पितुः क्रमेणैव, क्रममाणः प्रमाणवान् । सुतस्तुतस्ततस्तात ! क्रमायातस्त्वयं विधिः ।। ७७ ।।
'पितुः' जनकस्य । 'द्वेधा' द्विप्रकारेण भोगत्यागभेदात् । 'क्रमेणैव' परिपाट्या एव । 'क्रममाणः' चलन् यतमानः । क्रमोऽनपसर्गात् ।३।३।४७ ।। इति सूत्रेण आत्मनेपदम् । 'प्रमाणवान्' प्रामाणिकः । 'सुतस्तुतः' सुतेषु पुत्रेषु स्तुतः कीर्तितः भवति । 'ततः' तस्मात् । 'तात' हे पुत्र ! । 'क्रमायातः' क्रमेण आयातः । तुश्चकारार्थः । अयं विधि:-परम्परा ॥ ७७ ॥
पुत्रोभयपदी धातुस्त्वं मामर्त्य भोगभूः । ततस्ते युज्यते कर्तुं, प्रियंवद ! पदद्वयी ॥ ७८ ॥
'पुत्र' हे वत्स ! त्वम् । उभयपदी धातुः इव । 'मामर्त्य भोगभूः' नरदेवभोगस्थानमसि । 'ततः' तस्मात् । 'प्रियंवद' हे मधुरवचन ! 'ते' तव । 'पदद्वयी' इहलोकपरलोकद्वयी । धातुपक्षे-आत्मने-परस्मैपदद्वयी । 'कर्तुं' विधातुम् । 'युज्यते' घटते ॥ ७८ ॥
श्री: काशयष्टिवच्चाढ्यम्भावुकेनाबुकेन ते । नीतेक्षुसमतां दक्ष ! सप्तक्षेत्रीनिवेशनात् ॥ ७९ ॥ ___'आढ्यम्भावुकेन' धनाढ्यभविष्णुना । 'ते' तव । 'आबुकेन' पित्रा गोभद्रेण । 'पिता त्वाबुकः' इति हैम्याम् । 'काशयष्टिवत्' काशस्य यष्टिः तद्वत् । काशयष्टिः सप्तवारान् क्षेत्रे निधीयते तदा इक्षुः स्यात् । 'सप्तक्षेत्रीनिवेशनात्' चतुर्विधसङ्घ-जिन-मन्दिर-जिनमूर्ति-जिनागमरूपेषु सप्तक्षेत्रेषु निवेशनात् । 'दक्ष' हे कुशल ! । 'श्रीः' लक्ष्मीः । 'इक्षुसमतां' रसालतुल्यताम्। 'नीता' प्रापिता ॥ ७९ ॥
कुलकानन कर्पूरद्रुम ! त्वमपि पूरय । सर्वाङ्गचङ्ग सर्वाशाः, दानैः परिमलैरिव ॥ ८० ॥
828282828282828282828282828282828282
॥२१३॥