________________
श्री
शालिभद्र
महाकाव्यम्
FREREDE
पुण्याढ्यसार्वभौमेन, दिग्गजेनाङ्गजन्मना । उत्तराऽपि निराधारा, त्वया विरहिता ह्यहम् ॥ ७४ ॥ 'पुण्याढ्यसार्वभौमेन' पुण्याढ्येषु पुण्यशालिषु सार्वभौमेन चक्रवर्तिना । दिग्गजपक्षे सार्वभौमाख्योत्तरदिग्गजेन । 'दिग्गजेन' दिग्गजतुल्येन । त्वया । 'अङ्गजन्मना' पुत्रेण 'विरहिता' वियुक्ता । हिः निश्चये । अहम् । 'उत्तराऽपि ' उत्तमाऽपि । पक्षे उत्तरदिगपि । 'निराधारा' आधारहीनाऽस्मि ॥ ७४ ॥
सुनक्षत्राऽपि विच्छाया, विनेनं द्यौरिवाङ्गना । किञ्चित्कलावता किन्तु, द्योतते नन्दनेन्दुना ॥ ७५ ॥ 'इनं' पतिम् । गगनपक्षे सूर्यम् । 'विना' ऋते । 'द्यौरिव' आकाशमिव । 'अङ्गना' स्त्री । 'सुनक्षत्राऽपि ' शोभननक्षत्रजाताऽपि । पक्षे ग्रहगणयुताऽपि । 'विच्छाया' कान्तिरहिता भवति । किन्तु । 'किञ्चित्कलावता ' किञ्चिद्विज्ञानादिकलायुतेन । पक्षे षोडशकलासु किञ्चित् कलाधरेण (चन्द्रेण ) । 'नन्दनेन्दुना' पुत्रचन्द्रेण । पक्षेआनन्दकारिणा चन्द्रेण । द्योतते' प्रकाशते ।। ७५ ।।
ताम्बूले शर्कराचूर्णं यथा चैत्रे च वर्षणम् । तथा न वत्स ! वैराग्यं, युज्यते नव-यौवने ॥ ७६ ॥
यथा । 'ताम्बूले' मुखवासे । 'शर्कराचूर्णं' सिताक्षोदक्षेपः । यथा च । 'चैत्रे' मधुमासे । 'वर्षणं' मेघवृष्टिः । तथा । 'वत्स' हे नन्दन ! 'नव-यौवने' अभिनववयसि । 'वैराग्यं' विरक्ति: । 'न युज्यते' न घटामञ्चति । ताम्बूले वर्याऽपि शर्करा न युक्ता । न च अकाले वृष्टिः वर्या । भाण्डलीपुराणे यतः उक्तम्- 'चैत्रमासि जई वीजविजोर, वैशाखई जउ किंसु घोइ । जेठमासि जउ जाइ तपं, तऊँ कुण राषइ जलहर वसंतउँ ॥ ७६ ॥
ERERERE
पञ्चमः
प्रक्रमः
।। २१२ ।।