________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
भ्रमिं प्राप्ता । 'भद्रा' शालिमाता । 'निष्पत्राकृतवल्लिवत्' निर्गतं पत्रमस्मात् निष्पत्रः, शरीरान्तनिष्कान्तशर: मृगादिः निष्पत्रा कृता उपचारादत्यन्तपीडिता वल्लि: लता तद्वत् । सपत्रनिष्पत्रादतिव्यथने ७२।१३८। इति डाच् । 'कृतवल्लिका' इत्यपि पाठः । 'भूपीठे' पृथ्वीतले । 'लुठिता' पतिता ॥ ७० ॥
दीना मीनादपि मरोः, क्षीणा रीणाऽध्वगादपि । मू»समुच्छ्रयच्छेदे, दूना मौनं मुमोच सा ॥ ७१ ॥
'मरोः' मरुदेशस्य । 'मीनादपि' मत्स्यादपि । 'दीना' वराका । 'रीणाऽध्वगादपि' रुग्णप्रवासिनः अपि । 'क्षीणा' कृशा । 'मूर्छासमुच्छ्रयच्छेदे' मूर्छासमुच्छ्यस्य निश्चेष्टत्वातिशयस्य छेदे विरामे । 'दूना' दुःखिता, 'सा' भद्रा । 'मौनं' तुष्णीम्भावम् । 'मुमोच' त्यक्तवती । वक्तुमुपकान्ता इत्यर्थः ॥ ७१ ॥
श्रीमण्डपे त्वयि प्रौढा, वत्स ! वत्सलतालता । किमिदं चेष्टितं तत्ते, सन्तापौपयिकं मयि ॥ ७२ ॥
'वत्स' हे पुत्र ! । 'श्रीमण्डपे' श्रियाः लक्ष्म्याः मण्डपतुल्ये । त्वयि । मम प्रौढा वत्सलतालता' मम वात्सल्यरूपा दृढा वल्लिः । स्थिता अस्ति । 'तत्' तस्मात् । 'ते' तव । 'मयि' मातरि । 'इदं' दीक्षाभिलाषरूपम् । 'सन्तापौपयिकं' सन्तापस्य उपाय: एव औपयिकम् । उपायाद्मस्वश्च ।७।२।१७०।। इति इकण् । 'चेष्टितं' वर्तनम् । 'किं' कथम् ? ॥ ७२ ॥
कुलकाश्मीर केदारकुङ्कमस्तबकोपमः । विरागाय कथं जात ! जातः स्वपर-रञ्जकः ॥ ७३ ॥
'जात' हे पुत्र ! | 'कुलकाश्मीरकेदारकुङ्कमस्तबकोपमः' कुलकाश्मीरकेदारे वंशघुसृणालवाले कुङ्कुमस्तबकोपमः कुङ्कमगुच्छसमः । 'स्वपररञ्जकः' निजान्यानन्ददायी त्वम् । पक्षे-स्वपररंगकारी 'विरागाय' निर्वेदाय । पक्षे-रंगरहिततायै कथं जातः-भूतः ? ॥ ७३ ॥
8282828282828282828282828282828888
॥२११॥