________________
श्री
शालिभद्र महाकाव्यम्
FREREAS
साधु श्रावकयोर्गीता, मेरुसर्षपसाम्यता । गृहिधर्मेण सिद्धार्थः, कथं मातर्भवाम्यहम् ॥ ६७ ॥ ‘साधुश्रावकयोः’ मुनिश्राद्धयो: । 'मेरुसर्षपसाम्यता' मेरुसिद्धार्थतुल्यता, साधुः मेरुसमः श्रावकः सर्षपसम: इति तुल्यता । 'गीता' आगमे कथिता । 'तत्' तस्मात् । 'मातः ' हे अम्ब! 'गृहिधर्मेण श्रावकधर्मपालनेन । 'सिद्धार्थः' कृतकृत्यः सर्षपतुल्यो वा । अहं कथं भवामि ? ॥ ६७ ॥
मच्चित्तभूतले सप्त-तत्त्वधान्यप्ररोहणा । प्रकाशयति चारित्रचैत्यस्थापनयोग्यताम् ॥ ६८ ॥
'मच्चित्तभूतले' मम मानस - पृथ्वीतले । 'सप्ततत्त्वधान्यप्ररोहणा' जीवाजीवाश्रव-संवर निर्जरा - बन्धमोक्षाभिधानि सप्त तत्त्वरूपाणि धान्यानि तेषां प्ररोहणा । पक्षे सप्तप्रकाराणि धान्यानि । यत्र प्रासादः स्थाप्यते तत्र प्रथमं शालि-यवगोधूम - मुद्ग-वल्ल-चणक-चवल धान्यानि उप्यन्ते इति वास्तुव्रते । 'चारित्र चैत्यस्थापनयोग्यतां निर्माणौचित्यम् । 'प्रकाशयति' दर्शयति ॥ ६८ ॥
संयम-मन्दिर
मातर्मा तद्विलम्बध्वं कृतकालम्बनैरलम् । वीरसूः पुष्पमालासु, भव चम्पकमालिका ॥ ६९ ॥
'मात:' हे जननि ! । 'तत्' तस्मात् । 'मा विलम्बध्वं' मा कालक्षेपं कुरुत । 'कृतकालम्बनैः' कृत्रिमालम्बनैः । 'अलं' पर्याप्तम् । 'पुष्पमालासु' कुसुमस्रक्षु । 'चम्पक-मालिका इव' हेमपुष्पकदाम इव । 'वीरसूः' वीरमाता । 'भव' एधि ।। ६९ ।।
झञ्झावातेन तेनाथ, वचसा भ्रमिता भृशम् । भूपीठे लुठिता भद्रा, निष्पत्राकृतवल्लिवत् ॥ ७० ॥ अथ । 'तेन' शालिभद्रोक्तेन । 'झञ्झावातेन' वात्यातुल्येन । 'वचसा' वचनेन । 'भृशं' अत्यर्थम् । 'भ्रमिता'
TRERERY
पञ्चमः
प्रक्रमः
॥ २१० ॥