________________
श्री
शालिभद्र महाकाव्यम्
FRERER
'मात:' हे जननि ! । 'सङ्गतं' युक्तम् । 'अनादीनवं' निर्दोषम् । 'वच: ' वचनम् । 'अवादी' अकथयः । यत् । तस्य पितुः - गोभद्रस्य त्वं सूनुः पुत्रः असि' इति अस्य । अर्थः रहस्यम् । 'विभाव्यतां' विचार्यताम् ॥ ६३ ॥
अतिजातोऽस्तु दूरेण, सुजातोऽपि कथं सुतः ? । यः पञ्चविषयासक्त - स्तस्याहं मुनिचक्रिणः ॥ ६४ ॥ 'मुनिचक्रिणः' साधुसत्तमस्य । 'तस्य' गोभद्रमुनेः । 'अतिजातः' पितुः सकाशादधिक- गुणः पुत्रः । दूरेण अस्तु' दूरे भवतु । 'सुजातोऽपि समानगुणोऽपि । कथमहम् । 'सुतः' तनयः ? यः अहम् । पञ्चविषयासक्तः' संसारसुखलीनोऽस्मि ॥ ६४ ॥
त्वया मात्रैकयाऽप्येव-महमत्र सुखी यदि । किमुच्यते तु चारित्रे, यत्राष्टौ मातरो हिताः ॥ ६५ ॥
त्वया एकया अपि मात्रा - जनन्या । ' एवं ' इत्थम्भूतेन सुखेन । अहम् । 'अत्र' संसारे। यदि सुखी स्याम् । तर्हि । 'यत्र' संयमे । 'हिता:' हितकर्यः । 'अष्टौ मातरः' अष्टौ प्रवचनमातरः समितिगुप्त्यादयः सन्ति । तत्र 'चारित्रे' संयमे । 'किमुच्यते' किं कथ्यते ? ॥ ६५ ॥
क्षमोद्धारवराहेण, पुरुषोत्तममूर्तिना । मया भव सुतेनादिपोत्रिणीवाम्ब ! पुत्रिणी ॥ ६६ ॥
'क्षमोद्धारवराहेण' क्षमायाः आत्मनि प्रच्छन्नायाः क्षमायाः क्षान्तेः उद्धारकरणे वराणि श्रेष्ठानि अहानि दिनानि यस्मात् तेन । अवतारपक्षे-क्षमायाः पृथिव्याः उद्धारे वराहावतारेण । 'पुरुषोत्तममूर्तिना' पुरुषोत्तमा पुरुषेषु उत्तमा श्रेष्ठा मूर्ति: शरीरं यस्य तेन । पक्षे-विष्णुना । मया । 'सुतेन' पुत्रेण । 'अम्ब' हे मातः ! । 'आदिपोत्रिणीव' आदिवराही इव । 'पुत्रिणी' सुतवती । 'भव' एधि ॥ ६६ ॥
KER
पञ्चमः
प्रक्रमः
॥ २०९ ॥