________________
श्री
शालिभद्र महाकाव्यम्
FRERER
प्राणातिपाताद्यणुव्रतानां द्वादशकम्, 'लता' स्रग्रुपा, 'सरा' इति भाषायाम् । सः, 'अर्धमाणवहार:' द्वादशलतारूप: हारविशेष:, पञ्चमः 'द्वादश त्वर्धमाणवः' इति हैम्याम्, 'गृहिधर्मः ' श्रावकधर्मः, 'ते' तव, 'भूषणं' अलङ्कारः 'अस्तु' भवतु ॥ ६० ॥ हम्यिणामेव धर्माय, जनयित्र्याः पवित्रधीः । सांमत्यमित्यवेत्यासौ, विशेषार्थमुदाहरत् ॥ ६१ ॥
प्रक्रमः
'हयिणामेव' सौधवतां गृहस्थानामेव । 'धर्माय' धर्मपालनाय । 'जनयित्र्याः ' मातुः । 'सांमत्यं' संमतेर्भावः सांमत्यम्, अनुमतित्वमित्यर्थः । साङ्गत्यमित्यपि पाठः । इति पवित्रधीः शुचिमति: । 'असौ' शालिभद्रः । 'अवेत्य' ज्ञात्वा । 'विशेषार्थं स्वमनःस्थं विशेषभावम् । 'उदाहरत्' अवदत् ॥ ६१ ॥
1825
स्वाख्यातकृत्ये विश्रान्ते, कान्ते व्याकरणे निजे । व्याचिख्यासुरसौ न्यास - माशवाचमुपाददे ॥ ६२ ॥
'स्वाख्यातकृत्ये' सु-अतिशयेन आख्यातं कथितं कृत्यं-प्रयोजनं यस्मिन् तस्मिन् (प्रश्ने)। 'निजे कान्ते' स्वीये मनोज्ञे । 'व्याकरणे' प्रतिवचने । 'विश्रान्ते' विश्रान्ति गते । वैयाकरणपक्षे - आख्यातकृत्याः प्रत्ययविशेषाः यस्मिन् तस्मिन् विश्रान्ताभिधाने व्याकरणे । 'व्याचिख्यासुः' वक्तुकामः । पक्षे व्याख्यां कर्तुकामः । 'असौ' शालिभद्रः । 'आशु' क्षिप्रम् । 'न्यास' स्थापनाम् । पक्षे- न्यासनामकं व्याकरणाङ्गम् । न्यासेन हि व्याख्यायते व्याकरणम् । 'वाचं' वाणीम् । 'उपाददे' गृहीतवान् । यथा वैयाकरण: व्याकरणव्याख्यां कर्तुकामः न्यासमुपाददाति तथा शालिभद्रः स्वप्रश्नस्य उत्तरे मात्रा अदत्ते वाचमुपाददे उवाच इत्यर्थः ॥ ६२ ॥
अवादीः सङ्गतं मात-र्यदनादीनवं वचः । पितुस्तस्यासि सुनूस्त्व- मित्यस्यार्थो विभाव्यताम् ॥ ६३ ॥
॥ २०८ ॥