________________
पक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
'अवतिष्ठते' स्थातुं शक्नोति । यतः उक्तम्-क्षीरं श्वानोदरे सिंहीदुग्धमस्वर्णभाजने । निष्पुण्ये श्रीः रसेन्द्रोऽग्नौ, धर्मस्तिष्ठति नाऽधमे ॥ १ ॥ ५७ ॥
द्वादशात्मा गेहिधर्मस्तुङ्गे त्वय्युदयाचले । मच्चित्तकमलोल्लासी, त्रयीतेजोमयः शुचिः ॥ ५८ ॥ उदेतु धातुरङ्गेण, काष्ठा आपूरयन्निव । सञ्जीवनी दर्शनानां, यत्करप्रसरस्थितिः ॥ ५९ ॥
(युग्मम्) 'त्वयि' शालिभद्रे पुत्रे । 'तुङ्गे' उच्चे । 'उदयाचले' उदयेन धर्मोदयेन अचले स्थिरे । सूर्यपक्षे-उदयगिरौ । 'द्वादशात्मा' द्वादशविधः । पक्षे-सूर्यः । 'सूर्यो द्वादशात्मा च हेलिः' इति हैम्याम् । 'गेहिधर्मः' श्रावकधर्मः । 'उदेतु' आगच्छतु । पक्षेउदयं प्राप्नोति । कथम्भूतः सः? 'मच्चित्तकमलोल्लासी' मम मनःपद्मविकासी । 'त्रयीतेजोमयः' ज्ञानदर्शनचारित्रत्रयी प्रकाशमयः। पक्षे-वेदत्रयीमयः । 'त्रयीतेजोमयो भानुरिति वेदविदो विदुः' इति योगशास्त्रे । 'शुचिः' पवित्रः । पक्षेतमोनाशकत्वात् पवित्रः । 'धातुरङ्गेण' सप्तधातुषु रङ्गः राग: धर्मरागः तेन । पक्षे-गैरिकादिधातुतुल्यरक्तरङ्गेण । 'काष्ठाः' उत्कर्षान् हृदयभावान् । पक्षे-दिशः । 'काष्ठाऽऽशा दिग्' इति हैम्याम् । 'आपूरयन्निव' वर्धयन्निव । पक्षे बिभ्रदिव । 'यत्करप्रसरस्थितिः' यदीयकृपापूर्णहस्तप्रसारस्थितिः । पक्षे-किरणप्रसरस्थितिः । 'दर्शनानां' षड्दर्शनानाम् । पक्षे-लोचनानाम् । 'सञ्जीवनी' सञ्जीवन्यौषधितुल्या, षड्दर्शनानां जैनधर्मात् जायमानत्वात् । पक्षे-प्रकाशदानेन सम्यग् जीवनदात्री ॥ ५८ ॥ ५९ ॥
सम्यक्त्वं पदकं यत्र, व्रतद्वादशकं लता । सोऽर्धमाणवहारस्ते, गृहिधर्मोऽस्तु भूषणम् ॥ ६० ॥ 'यत्र' गृहिधर्मरुपे अर्धमाणवहारे, 'सम्यक्त्वं' तत्त्वरुचिरुपं सम्यग्दर्शनम्, 'पदकं' हारान्तर्मणिः । 'व्रतद्वादशकं' व्रतानां
satasa8RSR88RSONASRSASASASRSANASNA
॥ २०७॥