________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'धर्मकृवंशभूषणे' धर्मकारिकुलालङ्कारे । अर्बुदपक्षे-धनु:कुवंशा:-वेणव: भूषणानि यस्मिन् । 'मानतुङ्गेऽपि' गौरवोच्छ्रितेऽपि। पक्षे-प्रमाणेन उच्चेऽपि । 'पुत्रे' तनये । 'श्रीमाता' जननी । पक्षे श्रीमातानामिका देवी । 'अधिष्ठात्री' रक्षिका । पक्षे-अधिष्ठायिका । 'युज्यते' घटते ॥ ५४ ॥
उदात्तया तया वाचा, तदात्वं हि तदात्तया । प्रहृष्यन्तितरा तारं, तमुवाच प्रसूरसौ ॥ ५५ ॥
'तदात्वं' तत्कालम् । हिः निश्चये । 'तदात्तया' तेन शालिभद्रेण आत्तया-गृहीतया उक्त्या इत्यर्थः । 'तदुक्तया' इत्यपि पाठः । 'उदात्तया' उत्तमगुणयुतया । 'तया वाचा' तेन वचनेन । 'प्रहृष्यन्तितरा' अतिप्रमोदमाना । ऋदुदित् । ३।२।६३।। इत्यनेन वा हस्वः । 'असौ प्रसः' माता । 'तं' शालिम् । 'तारं' तारध्वनिना । 'उवाच' अकथयत् ॥ ५५ ॥
तात ! तस्य पितुः सूनुर्न बद्धो भोगतन्तुना । यः पुन्नागोऽवगाढोऽपि, कमलां किल नर्मदाम् ।। ५६ ॥
तात' हे पुत्र ! त्वम् । तस्य पितुः-गोभद्रस्या 'सूनः पुत्रः । यः पुन्नाग:-पुरुषश्रेष्ठः । पक्षे-हस्ती । 'कमला' श्रियम् । हस्तिपक्षे-कं-जलं मालति-धारयति इत्येवंशीला ताम् । 'नर्मदां' लीलादात्रीम् । पक्षे-रेवानदीम् । 'अवगाढोऽपि निमग्नोऽपि । 'भोगतन्तुना' विलासतन्तुना । पक्षे-तन्तुना ग्राहेण जलजन्तुविशेषेण । 'ग्राहे तन्तुस्तन्तुनागः' इति हैम्याम् । 'न बद्धः' न सन्दानितः । पक्षे-न आकृष्टः ॥ ५६ ॥
जैनतत्त्वं स्फुरत्तेजस्ताताधिक्रियते त्वयि । यत: सिंहीपयः स्वर्ण-पात्र एवावतिष्ठते ॥ ५७ ॥
'तात' हे वत्स ! । 'स्फुरत्तेजः' विलसत्कान्ति । 'जैनतत्त्वं' आहेततत्त्वम् । 'त्वयि' पुत्रे । 'अधिक्रियते' स्थातुं अधिकारि भवति । 'यतः' यस्मात् । 'सिंहीपयः' सिंह्याः पयः दुग्धम् । 'स्वर्णपात्रे' कनक-भाजने । एवः अवधारणे ।
828282828282828282828282828282828282
॥ २०६॥