________________
पक्रमः
शालिभद्र महाकाव्यम्
SASASASA 8282828282828282828282828282
'मात्राधिकं' मात्रया अधिकं भद्रामात्रा वा अधिकं-वृद्धि गतम् । 'औदरिकं' उदरे भवं औदारकरीरं वा । 'जानीहि' अवबुध्यस्व ॥ ४३ ॥ 'तत्' तस्मात् । 'अहं' देहः । 'कष्टं' दुःखम् । 'सासहिः' सोढा । 'आहितं' न्यस्तम् । 'भारं' वीवधम् । 'वावहिः' वोढा । 'तव' मनसः । 'निर्देशैः' आदेशैः । 'चाचलिः' चलिता । 'अपकीर्ती' जनापवादे । 'न पापतिः' न पतिता । 'ङौ सासहिवावहि-चाचलि-पापतिः' ।।५।२।३८॥ इति सूत्रेण यङि द्वित्वे, यङ्लोपे डौं प्रथमासिः, तदन्ता निपात्यन्ते ॥ ४४ ॥ तथा । 'ते' तव मनसः आत्मनो वा । 'सर्वार्थप्राप्तये' सकलहेतुसिद्धये सर्वार्थसिद्धनामकविमानप्राप्तये वा । 'भुजिष्यः' किङ्करः । अहम् 'यतिष्ये' प्रयत्नं करिष्यामि । यथा । 'अहमिन्द्रत्वं' अहं इन्द्रत्वं-स्वामित्वं कल्पातीतत्वं च । 'लब्धा' लप्स्यसे । 'गोस्वामी' आवयोः राजा शालिभद्रः । 'न व्यथिष्यते' न व्यथां प्राप्स्यते ॥ ४५ ॥
देहवाहमनः-सादि-साङ्गत्यमवगत्य तत् । स मेने भवमाश्वीन-मद्यश्वीनं जयोत्सवम् ॥ ४६ ॥
'तत्' तस्मात् । 'देहवाहमन:-सादिसाङ्गत्यं' देहवाह:-शरीराश्वः मनः-सादी-चित्ताश्ववारकः तयोः साङ्गत्यं मित्रताम् । 'अवगत्य' ज्ञात्वा । 'सः' शालिभद्रः । 'आश्वीनं' अश्वमार्ग, 'आश्वीनोऽध्वा स योऽश्वेन दिनेनैकेन गम्यते' इति हैम्याम् । 'भवं' संसारम् । 'अद्यश्वीनं' अद्य श्वो वा भवम् । 'जयोत्सवं' विजयमहम् । 'मेने' मतवान् ॥ ४६ ॥
शालिभद्र-भद्रयोः सम्भाषणम्उपेयिवांसमप्याशु, तं चिरादिव वीक्षितम् । भद्राऽभ्येत्याभ्यधादाय-लकाम्भस्तल्लिका स्वयम् ॥ ४७ ॥ 'आशु' क्षिप्रम् । 'उपेयिवांसमपि' आगतमपि । 'चिरात्' चिरकालात् । 'वीक्षितमिव' दृष्टमिव ।
satasa8RSR88RSONASRSASASASRSANASNA
॥ २०३॥