________________
श्री
शालिभद्र महाकाव्यम्
Terr
भुजिष्यस्ते यतिष्येऽहं, सर्वार्थप्राप्तये तथा । लब्धा यथाऽहमिन्द्रत्वं, गोस्वामी न व्यथिष्यते ॥ ४५ ॥ ( सप्तभिः कुलकम् )
‘इतश्च' शालिभद्रे । ‘सुसेवक: इव' सुदासः इव । 'प्राञ्जलीभूय' सरलीभूय । 'देहः' शरीरं कर्तृपदम् । 'महौजसं' महाबलम् । 'पेशलं' दक्षम् । 'मनोराजं' चित्तनृपम् । 'सस्नेहं' स्नेहपूर्वकम् । 'अवदत् ' अकथयत् । देहः चित्तं प्रति कथयति इति भावः ॥ ३९ ॥ किमवददिति दर्शयन्नाह - 'स्वामिन्' हे नाथ ! चित्त ! 'अहं' देहः । 'स्वभावेन' प्रकृत्या | 'शीतवातातपाक्षमं' शीतलवायुसहने आतपसहने च अक्षमं असमर्थम् । 'राजश्वासानिलैः' श्रेणिकश्वास - वायुभि: । 'दूनं' खिन्नम् । 'त्वया' मनसा । 'इयतीं भूमिं धर्मघोषाचार्यदेशनाभूमिं यावत् । 'निन्ये' 'नीतं' प्रापितम् ॥ ४० ॥ 'तत्' तस्मात् । अद्य । मम । 'परः' अन्यः । 'गोस्वामी' पृथ्वीपतिः श्रेणिकः । 'स्वामी' नाथः अस्ति । इति 'दूनधी: ' खिन्नमतिः । ‘मोहं' महोराजं प्रति । 'सर्वाभिसारणे' सर्वबलेन । 'यदि' चेत् त्वम् । 'अभिषिषेणयिषुः ' वैरिसम्मुखं यियासुः ॥ ४१ ॥ तत् । 'वीरमानिनां' आत्मानं वीरं मन्यन्ते इत्येवंशीलाः तेषाम् । 'वल्लभं' प्रियम् । मम इदं महापर्व - महोत्सव: । 'प्रभुप्रसाद प्रार्णस्य' शालिभद्रस्वामिकृपारूपस्य प्रकृष्ट ऋणस्य 'ऋणार्णं' ऋणस्य ऋणं व्याजसहितम् । 'अधुना' साम्प्रतम् । 'शोधये' दद्याम् । देहः चित्तं प्रति कथयति - शालिभद्रः किल दिव्यभोगैः मां परां पुष्टिं नीतवान् । तस्मादहं ऋणार्णाक्रान्तोऽस्मि । यदि त्वं सहयोगी स्या:, ततः तत् ऋणमहं शोधये इत्यर्थः ॥ ४२ ॥ 'विज्ञ' हे पंडित ! | मां वैक्रियं विक्रियायां भवं वैक्रियं विकारयुक्तं यथाकामरूपं देवदेहं वा । 'मा ज्ञासी:' मा अवगच्छ । नैव च । 'आहारकं' भक्षणशीलं आहारलब्धिमद्देहं वा जानीहि । किन्तु । 'अत्यर्थकारिणं' अत्यन्तकारिणं मोक्षपुरुषार्थकारकं वा ।
KER
पञ्चमः
प्रक्रमः
॥ २०२ ॥