SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ श्री शालिभद्र महाकाव्यम् FRERERE मातरं कातरस्वान्तां यावदापृच्छ्य वत्सलाम् । आगच्छामीत्युदीर्यासौ, प्रविवेश पुनः पुरम् ॥ ३७ ॥ 'कातरस्वान्तां' चकितचित्ताम् । 'वत्सलां' वात्सल्यमयीम् । 'मातरं' जननीम् । 'आपृच्छय' अनुज्ञाप्य 'यावत्' अवधिदर्शकमव्ययम् । 'आगच्छामि' 'आयामि' इति उदीर्य उक्त्वा । 'असौ' शालिभद्रः । 'पुन:' भूयः । 'पुरं' राजगृहम् । 'प्रविवेश' प्रविष्टः ॥ ३७ ॥ प्रतिमानं विमानस्य, स्वप्रासादावतंसकम् । अध्यास्त ध्वस्तसम्मोह-मन्त्रमण्डपसन्निभम् ॥ ३८ ॥ 'विमानस्य' देवविमानस्य । 'प्रतिमानं' प्रतिरूपम् । 'ध्वस्तसम्मोहमन्त्रमण्डपसन्निभं ध्वस्तः- नष्टः सम्मोह:अज्ञानं येषां तेषां जनानां मन्त्रे - मन्त्रणायां विचारणायां मण्डपसमम् । 'स्वप्रासादावतंसकं' निजोत्तमसौधम् । 'सः' शालिभद्रः । 'अध्यास्त' प्रविष्टः ॥ ३८ ॥ इतश्च देहः सस्नेह, मनोराजं महौजसम् । पेशलं प्राञ्जलीभूय, सुसेवक इवावदत् ॥ ३९ ॥ स्वामिन्नहं स्वभावेन, शीतवातातपाक्षमम् । राजश्वासानिलैर्दूनं निन्ये भूमिं त्वयेयतीम् ॥ ४० ॥ तदद्य मम गोस्वामी, परः स्वामीति दूनधीः । मोहं सर्वाभिसारेणाभिषिषेणयिषुर्यदि ॥ ४१ ॥ तन्ममेदं महापर्व, वल्लभं वीरमानिनाम् । प्रभुप्रसादप्रार्णस्य, ऋणार्णं शोधयेऽधुना ॥ ४२ ॥ मा ज्ञासीर्वैक्रियं विज्ञ ! नैवाहारकमेव माम् । जानीह्यौदरिकं मात्रा - धिकमत्यर्थकारिणम् ॥ ४३ ॥ तदहं सासहिः कष्टं, वावहिर्भारमाहितम् । चाचलिस्तव निर्देशै रपकीर्ती न पापतिः ॥ ४४ ॥ KER पञ्चमः प्रक्रमः ॥ २०१ ॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy