________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'राजहंसैः' राजवर्यैः । पक्षे-चन्द्रसूर्यैः, राजा-चन्द्रः हंस:-सूर्यः तैः । 'ब्रनो हंसश्चित्रभानुः' इति हैम्याम् । 'जलाशया' जडाशयाः मूर्खाः । पक्षे-सरोवराणि । 'निर्वाप्यन्ते' धनदानादिना शीतीक्रियन्ते । पक्षे चन्द्रिकया शीतीक्रियन्ते । 'ताप्यन्ते' धनग्रहणादिना पीड्यन्ते । पक्षे-भीष्मातपेन उष्णीक्रियन्ते । 'तु' परन्तु । 'समता स्वर्गगङ्गा' समतारूपा सुरधुनी । 'तेषां' राज्ञां राजहंसानां च । 'करगोचरे' हस्तविषये दण्डविषये वा । पक्ष-किरणगोचरे । न भवति ॥ ३३ ॥
तन्मानिजनमाणिक्यकोटिकोटीर हीर ! ये । त्रियोगकरणैः शुद्धा, रत्नत्रयपवित्रिताः ॥ ३४ ॥ निर्धूतदोषत्रितया, गुप्तित्रिकविभूषिताः । भूर्भुवः स्वस्त्रयीवन्द्यास्ते स्युस्त्रिभुवनेश्वराः ॥ ३५ ॥
'तत्' तस्मात् । 'मानिजनमाणिक्यकोटिकोटीरहीर' हे मनस्विलोकपद्मरागकोटिमौलिरत्न ! शालिभद्र ! 'ये' मुनयः । 'त्रियोगकरणैः' मनोवाक्कायैः । 'शद्धाः' पवित्राः । 'रत्नत्रयपवित्रिताः' ज्ञानादिरत्नत्रयेण पवित्रिताः ॥ ३४ ॥ 'निर्धूतदोषत्रितयाः' निर्धूतं निराकृतं दोषत्रितयं रागद्वेषमोहरूपं यैः ते । 'गुप्तित्रिकविभूषिताः' गुप्तित्रिकेण मनोवाक्कायरूपेण विभूषिताः । 'ते' साधवः । 'भूर्भुवःस्वस्त्रयीवन्द्याः' ऊधिस्तिर्यक्लोकप्रणम्या: । 'त्रिभुवनेश्वराः' त्रिलोकपतयः । 'स्युः' भवेयुः ॥ ३५ ॥
ततः प्रमोदमेदस्वी, स मनस्वी जगौ गुरुम् । भवं मोक्ष्ये मनो मोक्षे, योक्ष्ये यौष्माकशिक्षया ॥ ३६॥
'ततः' तत्पश्चात् । 'प्रमोदमेदस्वी' हर्षमेदुरः । 'स: मनस्वी' गौरवशाली शालिभद्रः । 'गुरूं' धर्मघोषाचार्यम् । 'जगौ' उवाच । हे गुरो । 'यौष्माकशिक्षया' युष्माकमियं यौष्माकी तया शिक्षया । 'मनः' चेतः । 'मोक्षे' मुक्तौ । 'योक्ष्ये' रमयिष्यामि । 'भवं' संसारं । 'मोक्ष्ये' त्यक्ष्यामि ॥ ३६ ॥
82828282828282828282828282828282888
॥ २००॥