________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
सङ्गत्यागसमुत्तुङ्गकाष्ठासक्तसुधीमृदा । चारित्र-सेतुबन्धेन, सहसा स निवार्यते ॥ ३० ॥
'सङ्गत्यागसमुत्तुङ्ग-काष्ठासक्तसुधीमृदा' सङ्गत्यागः एव समुत्तुङ्ग महद्यत् काष्ठं तेन आसक्ता-लग्ना सुधी:-शोभना बुद्धिः एव मृत्-मृत्तिका तया । 'चारित्र-सेतुबन्धेन' सर्वविरतिपालिकरणेन । 'सः' स्वामिभृत्यप्रवाहः । 'सहसा' सपदि । 'निवार्यते' रुध्यते ॥ ३० ॥
महास्कन्धाः कदर्थ्यन्ते, पुन्नागा राजकुञ्जरैः । क्षमाभृत्सु पुनस्तेषां, दन्तभङ्गः प्रसङ्गवान् ॥ ३१ ॥
'महास्कन्धाः' महांसा: । वृक्षपक्षे-महास्कन्धभागाः । 'पुन्नागाः' श्रेष्ठपुरुषाः । पक्षे-सुरपणिकाख्या: वृक्षविशेषाः । 'राजकुञ्जरैः' राजमुख्यैः श्रेणिकादिकैः । पक्षे-गजवरैः । 'कदर्थ्यन्ते' पीड्यन्ते । 'तेषां' राजकुञ्जराणाम् । 'क्षमाभृत्स्' पर्वतेषु । पक्षे-मुनिषु । 'पुनः' परन्तु । 'दन्तभङ्गः' रदनदलनम् । 'प्रसङ्गवान्' प्रासङ्गिक : । गजेन्द्राः वृक्षान् पीडयन्ति, न तु पर्वतान् । तथा राजानः सामान्य-जनान् पीडयन्ति, न तु मुनीन् इत्यर्थः ॥ ३१ ॥
पृथग्रूपं सुखं दुग्धं, राजहंसैर्विविच्यते । जडेभ्य: सुधियस्त्वेकरूपं न प्रशमामृतम् ॥ ३२ ॥
'जडेभ्यः' मूर्खेभ्यः । हंसपक्षे-जलेभ्यः, डलयोरैक्यात् । 'पृथग्रूपं' विविक्तम् । 'दुग्धं' धनरूपं दुग्धम् । पक्षेपय: । 'राजहंसः' नृपैः । पक्षे-हंसैः । 'सुखं' सुखपूर्वकम् । “विविच्यते' पृथक्क्रियते । 'तु' परन्तु । 'सुधियः' | शोभनबुद्धेः मुनेः । एकरूपं प्रशमामृतं न विविच्यते । यथा हंस: दुग्धमिश्रितजलात् दुग्धं वेवेक्ति न ह्यमृतम् । तथा राजा जडजनेभ्यः धनं सुखं गृह्णाति, न तु सुधीमुनिभ्य: प्रशमामृतमिति भावः ॥ ३२ ॥
निर्वाप्यन्ते च ताप्यन्ते, राजहंसैर्जलाशयाः । समता स्वर्गगङ्गा तु, न तेषां करगोचरे ॥ ३३ ॥
8282828282828282828282828282828888
॥१९९॥