________________
श्री शालिभद्र महाकाव्यम्
'पायं पायं' अभीक्ष्णं पानं पायं पायं पीत्वा पीत्वा इत्यर्थः । 'ख्णम् चा०' ५।४।४९ ॥ इति ख्णम्, 'आत ए: कृः |४|३|५३|| इति ऐ: आयादेशे द्वित्वे च रूपम् । 'स' शालिभद्रः । 'मुनिमचर्चिकां' मुनिपुङ्गवम् । 'स्वसन्देहचर्चा' निजसंशयविचारणाम्। पप्रच्छ' पृच्छति स्म ॥ २६ ॥
स्वामिभृत्यप्रवाहोऽयं, मानिचित्तसरः पतन् । केन सत्कर्मबन्धेन, जगद्बन्धो ! निवार्यते ॥ २७ ॥ 'जगद्बन्धो' हे विश्वबान्धव ! 'मानिचित्तसरः' मनस्विमनोजलाशयम् । 'पतन्' आगच्छन् । 'अयं स्वामिभृत्यप्रवाहः' स्वामिसेवकपरम्पराप्रवाहः । 'केन सत्कर्मबन्धेन' पालि-रूपेण पुण्यार्जनेन । 'निवार्यते' रुध्यते ॥ २७ ॥ चारुज्ञानचतुष्काढ्यः क्षमाक्षामोदरीवरः । प्राह श्रीधर्मसाम्राज्यसाधुराजः स राजवत् ॥ २८ ॥
'चारुज्ञानचतुष्काढ्यः' मति श्रुता वधि- मन:पर्ययचतुर्ज्ञानयुतः । राजपक्षे चारुज्ञानेन निपुणतया निर्मितेन चतुष्केन संस्थानेन आढ्यः युतः । क्षमाक्षामोदरीवर: ' क्षमा क्षामोदरी - कृशोदरी वरः पतिः । पक्षे धरणीरमणीपतिः राजा । 'श्रीधर्मसाम्राज्यसाधुराजः ' श्रीधर्मसाम्राज्ये साधुराजः यतिपतिः । पक्षे - लक्ष्मीधर्मयुत - साम्राज्ये साधुराज: । श्रेष्ठराजा । 'सः' धर्मघोषाचार्य: । 'राजवत्' नृपवत् । 'प्राह' कथयति ॥ २८ ॥
विशालकमलाकेलि-चतुःशालस्य शालते । अयमन्तर्मुखः प्रश्नस्तवैवान्तः स्फुरत्तरः ॥ २९ ॥
‘विशालकमलाकेलिचतुःशालस्य' विशाललक्ष्मीक्रीडार्थं चतुःशालतुल्यस्य । तव । एवः अवधारणे । 'अन्तःस्फुरत्तर: ' हृदये अतिशयेन स्फुरन् । 'अयं अन्तर्मुखः' अन्तरङ्गः । 'प्रश्नः' पृच्छा । 'शालते' शोभते । स्वामिसेवकभावनिरोधेच्छारूपः प्रश्नः त्वादृशस्य भोगशालिनः एव शोभते, न सामान्यजनानामिति भावः ॥ २९ ॥
KER
SEREREDER
पञ्चमः
प्रक्रमः
।। १९८ ।।