________________
पक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
अगस्त्यर्षेः दक्षिणदिग् निवासस्थानमिति पौराणिकाः । 'कल्याणदक्षिणां' कल्याणदात्रीम् । 'पुण्यदक्षिणां' पुण्यानुकूलाम् । 'त्रिः' त्रिवारम् । प्रदक्षिणाम् । 'दत्वा' कृत्वा । 'उपाविशत्' उपविष्टः ॥ २२ ॥
सद्धर्मलक्षणा: सूरिः, सुधाया इव लक्षणाः । मिथ्याविलक्षणा वाचः, प्राह हर्षाविलक्षणाः ॥ २३ ॥
'सूरिः' धर्मघोषाचार्यः । 'सद्धर्मलक्षणाः' सद्धर्मस्य लक्षणानि यासु ता: (वाचः) । 'सुधायाः इव लक्षणाः' अमृतसदृश्यः । अत्र अभ्रादिभ्यः ७।२।४६।। इत्यनेन मत्वर्थीयः अ: प्रत्ययः । 'मिथ्याविलक्षणाः' मिथ्यात्वविपरीताः । 'हर्षाविलक्षणाः' हर्षेण आत्मानन्देन आविल: व्याप्तः क्षणः समय: यासु ताः । 'वाचः' वचनानि । 'प्राह' वदति ॥ २३ ॥
तथाहिभव्याः ! भवाहवे नव्य-शीलसन्नाहशालिनः । सदागमाशिरस्त्राणाः, संयमाश्वसमाश्रिताः ॥ २४ ॥ आदाय दर्शनज्ञानाचारशल्यत्रयं करे । विजयध्वं क्षणामोहरागद्वेषद्विषत्रयम् ॥ २५ ॥
'भव्याः' हे भव्यात्मानः ! । 'भवाहवे संसारसनामे | 'नव्यशीलसन्नाहशालिनः' नवब्रह्मचर्यकवचधारिणः । 'सदागमशिरस्त्राणा:' सुसिद्धान्तशीर्षण्याः । 'संयमाश्वसमाश्रिताः' चारित्रतुरङ्गाधिष्ठिताः ॥ २४ ॥ 'करे' हस्ते । 'ज्ञानदर्शनाचारशल्यत्रयं' रत्नत्रयीरूपं त्रिशल्यम् प्रहरणविशेषम् । 'आदाय' गृहीत्वा । 'क्षणात्' सद्यः । 'मोहरागद्वेषद्विषत्त्रयं' मोहादिशत्रुत्रयम् । 'विजयध्वम्' शत्रून् पराजितान् कुरुत ॥ २५ ॥
पायं पायं कणेहत्य, तदेतद्देशनामृतम् । स पप्रच्छ स्वसन्देह-चर्चा मुनिमचर्चिकाम् ॥ २६ ॥ तद् एतद् । 'देशनामृतं' वाणीसुधाम् । 'कणेहत्य' तृप्ति यावत् । कणेमनस्तृप्तौ ।३।१।६।। इति गति-संज्ञा ।
82828282828282828282828282828282828
॥१९७॥