________________
श्री
शालिभद्र महाकाव्यम्
FRERER
'एकं' प्रथमं तावत् । 'कामं' अत्यर्थम् । 'उन्माथिता' कामाविष्टा बाला । 'परं' द्वितीयम् । 'केकिकेकायितं' मयूरध्वनिः अभवत् । 'रसवतीपाके जाते' भोजने सिद्धे । 'प्रियातिथिसमागमः ' प्रियस्य इष्टस्य अतिथेः समागमः आगमनम् ॥ १७ ॥ 'ग्रामान्तरं' अन्यग्रामम् । 'प्रतिष्ठासो: ' प्रस्थातुमिच्छुकस्य जनस्य । 'समर्था' क्षमा । 'सार्थसङ्गतिः' सार्थमीलनम्। 'प्रौढपोताधिरूढस्य' महाप्रवहणाधिरूढस्य । 'पवनस्य' वायोः । अनुकूलता ॥ १८ ॥ यत् । 'धर्मेच्छो:' धर्मस्य इच्छो: । मम । 'महेच्छगुरुसङ्गमः' उदारगुरुमीलनम् । अभवत् । 'एवं' उक्तप्रकारेण । 'भद्राङ्गभूः' कल्याणकारणस्थानम् । 'भद्राङ्गभू:' भद्रापुत्रः शालिभद्रः । अभावयत्' अचिन्तयत् ॥ १९ ॥
तुरङ्गमविमानेन, विमानेनेव रंहसा । विमानेनसमश्रीकः, स विमानेन चेतसा ॥ २० ॥
ज्ञान-दर्शन-चारित्र- दुग्ध - दध्याज्य काम्यया । धर्मघोषमिवाचार्य, धर्मघोषमुपस्थितः ॥ २१ ॥
'रंहसा' वेगेन । 'विमानेन इव' विमान तुल्येन । 'तुरङ्गमविमानेन' अश्ववाहनेन । 'विमानेनसमश्रीकः' विमानस्य इनः स्वामी इन्द्रः तस्य समा श्रीः यस्य सः । 'विमानेन' विगतो मानो यस्मात् तेन चेतसा' मनसा ॥ २० ॥ 'ज्ञान-दर्शन- चारित्र दुग्धदध्याज्यकाम्यया' ज्ञान- दर्शन - चारित्राणि एव क्रमशः दुग्धदधिघृतानि तेषां काम्यया वाञ्छया । 'धर्मघोषमिव' धर्मगोरसनिवासे घोषतुल्यं गोकुलतुल्यम् । 'घोषस्त्वाभीरपल्ली स्यात्' इति हैम्याम् । 'धर्मघोषं आचार्यं' घर्मघोषनामकं सूरिम् । 'उपस्थितः ' समीपं गतः ॥ २१ ॥
प्रणम्योपाविशद्दत्वा, विनयागस्त्यदक्षिणाम् । कल्याणदक्षिणां पुण्य-दक्षिणां त्रिः प्रदक्षिणाम् ॥ २२ ॥ 'प्रणम्य' प्रकर्षेण नत्वा । 'विनयागस्त्यदक्षिणां' विनयः एव अगस्त्यर्षिः तस्य निवासाय दक्षिणदिक्समानाम् ।
| CRERERED
पञ्चमः
प्रक्रमः
।। १९६ ।।