________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
तं मन्त्रं साधयिष्यामि-सिद्धं करिष्यामि । तां च देवतां-देवम् । अत्र देवात् तल् ७।२।१६२ ॥ इति स्वार्थे तल्प्रत्ययः । 'सेविष्ये' आराधयिष्यामि । यथा मम । 'आनन्दः' प्रमोदः । 'राजमान्द्येन' नृपमौर्येण । पक्षे-क्षयरोगेण । 'न बन्दीक्रियते' न कारागृहे क्षिप्यते ॥ १४ ॥
धर्मघोषसूरीणामागमनम्तदेव भव-भङ्गाय, मानसे सम्प्रधारिते । कल्याणमित्रमभ्येत्याकस्मात्तस्मै व्यजिज्ञपत् ॥ १५ ॥
तत् एवं उपर्युक्तविचारणया। 'भवभङ्गाय' संसारोच्छेदाय । 'सम्प्रधारिते' निर्णीते । 'मानसे' चेतसि सति । 'अकस्मात्' तत्कालम् । कल्याणमित्रं' कल्याणकारि-सुहृत् । अभ्येत्य' आगत्य । तस्मै' शालिभद्राय। 'व्यजिज्ञपत्' ज्ञापयति स्म ।। १५ ।।
श्रीधर्मजययात्रायां, मूर्तं मङ्गलमद्भुतम् । शङ्खघोष इवात्रागात्, धर्मघोषगणेश्वरः ॥ १६ ॥
'श्रीधर्मस्य' श्रीधर्मभूपस्य । 'जययात्रायां' विजयप्रयाणे । 'अद्भुतं' आश्चर्यरूपम् । 'मूर्त' मूर्तिमत् । 'मङ्गलं' शुभम् । 'शङ्खघोषः इव' कम्बुनादः इव । 'धर्मघोष गणेश्वरः' धर्मघोषनामा गणेश्वर: आचार्यः । 'अत्र' राजगृहनगरे। 'आगात्' आगतः ॥ १६ ॥
एकमुन्माथिता कामं, केकिकेकायितं परम् । जाते रसवतीपाके, प्रियातिथिसमागमः ॥ १७ ॥ ग्रामान्तरं प्रतिष्ठासोः, समर्था सार्थसङ्गतिः । प्रौढपोताधिरूढस्य, पवनस्यानुकूलता ॥ १८ ॥ यदयं मम धर्मेच्छोर्महेच्छगुरुसङ्गमः । भद्राऽङ्गभूस्तदा भद्राऽङ्गभूरेवमभावयत् ॥ १९ ॥
ARRARAUAYA8A82828282828282888
॥१९५॥