SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ पक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 'आयल्लकाम्भस्तल्लिका' उत्कण्ठाजलटाकिका । 'रणरणोत्कण्ठे आयल्लकारती' इति हैम्याम् । 'भद्रा' शालिमाता । 'स्वयं' आत्मना । 'अभ्येत्य' आगत्य । 'अभ्यधात्' उवाच ॥ ४७ ।। इयतीनियतं काल-कला: कस्तात ! लम्भितः । दशां देशो वसन्तश्री-मिश्रोपवनवासिनीम् ॥ ४८ ॥ 'तात' हे पुत्र ! । 'नियतं' नूनम् । 'इयती: कालकलाः' इयन्त: समयांशाः । 'कः देशः' क: भूमिभाग: 'वसन्तश्रीमिश्रोपवनवासिनी' मधुलक्ष्मीयुक्तकीडावनस्थायिनीम् । 'दशां' अवस्थाम् । 'लम्भितः' प्रापितः? यत्र शालिभद्रः तत्र वसन्तः विलसति । इयत्कालं कुत्र स्थितः इति भद्रापृच्छेत्यर्थः ॥ ४८ ।। इलातलकलाकेलि-केलिः शालिरथालपत् । मातरद्य मयाऽश्रावि, श्रीधर्मः शर्मकारणम् ॥ ४९ ॥ अथ । 'इलातलकलाकेलि-केलिः' इलातले पृथ्वीतले कलाकेलि: कामः तत्समा केलि:-लीला यस्य सः । 'कलाकेलिरनन्यजोऽङ्गजः' इति हैम्याम् । 'शालिः' शालिभद्रः । 'आलपत्' उवाच । 'मातः' हे अम्ब ! । अद्य मया। 'शर्मकारणं' सुखनिदानम् । 'श्रीधर्मः' अर्हद्धर्मः । 'अश्रावि' श्रुतः ॥ ४९ ॥ सारस्वतप्रवाहाच्च, वहतः परितो गुरोः । उपदेशपयः पूरः प्रागस्थात् कर्णकुण्डयोः ॥ ५० ॥ 'गुरोः' धर्मघोषाचार्यस्य । पक्षे-लक्षणार्थत: पर्वतस्य । 'परितः' अभितः । 'वहतः' पूर्वमानस्य । 'सारस्वतप्रवाहात्' वाणीप्रवाहात् । पर्वतपक्षे-नदीप्रवाहात् । 'कर्ण-कुण्डयोः' मम श्रुतिरूपयोः जलाधारयोः । 'प्राग्' पूर्वम् । 'उपदेशपयःपूरः' देशनावारिप्लव:' । 'अस्थात्' स्थितः ॥ ५० ॥ ततो विमर्शकुण्डान्तरत्यन्तामलतामितः । घटनालैस्त्रिभिर्ज्ञानादिकैर्व्याप मनः सरः ॥ ५१ ॥ 828282828282828282828282828282828282 ॥ २०४॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy