________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
शालिभद्रस्य मन्त्रणाइन्द्रियेन्द्रेण मनसा, स विवेकबृहस्पतिः । आलुलोचे चतुष्कर्णं, मोहदैत्याभिषणने ॥ ४ ॥
'मोहदैत्याभिषणने' युद्धार्थं मोहासुराभिमुखगमने । सेनया सह वैरिणामभिमुखगमनं अभिषेणनम्'। 'विवेकबृहस्पतिः' योग्यायोग्यविभागे सुरगुरुसमः । 'सः' शालिभद्रः । 'इन्द्रियेन्द्रेण' इन्द्रियाणां इन्द्रेण नाथेन । पक्षे-देवेन्द्रेण । 'मनसा' चेतसा सह । 'चतुष्कर्ण' चतुष्कर्णा आलोचना किल द्वयोः पुरुषयोः भवति तयोः चत्वारः एव कर्णाः भवन्ति । अन्येन श्रुताऽऽलोचना विनश्यति । यदुक्तम् - 'षट्कर्णो भिद्यते मन्त्रः, चतुष्कर्णो न भिद्यते' । 'आलुलोचे' मन्त्रणां चकार ॥ ४ ॥
प्रातर्मङ्गलतूर्याणि, पौरैः साधारणान्यहो । प्रसादवित्तकैर्भोज्यं, तुरङ्गा मन्दुरानरैः ॥ ५ ॥ यामिकैः कलविद्वेश्च, प्रासादाः शिखराण्यपि । परं ममेति सत्तैव, राज्ञामपि सुखावहा ॥ ६ ॥ एवं स्थितेऽपि यद्यन्य-स्वामिना श्रीरधिष्ठिता । तदा दृगस्ति नीरोगा, तारैव पुनरावृता ॥ ७ ॥
'अहो' आश्चर्ये । 'प्रात:' प्रभाते । 'मङ्गलतूर्याणि' मङ्गलवादित्राणि । 'पौरः' नागरैः । 'साधारणानि' श्रोतुं सामान्यानि। 'प्रसादवित्तकैः' कृपापात्रैः । 'भोज्यं' अन्नं भोक्तुं साधारणम् । 'मन्दुरानरैः' अश्वशालापुरुषैः । 'तुरङ्गाः' | अश्वाः साधारणाः ॥ ५ ॥ 'यामिकैः' प्राहरिकैः । 'कलविङ्कः' चटकपक्षिभिः । चः समुच्चये । 'प्रासादाः' राजभवनानि । 'शिखराणि अपि' चन्द्रशालादीनि अपि साधारणानि । 'परं' परन्तु । 'मम इति सत्ता एव' अधिकार-भावना एव । राज्ञामपि सुखावहा भवति। मङ्गलतूर्याणि, मिष्टान्नभोजनम्, अश्वारोहणम्, प्रासादवसनम्, इत्यादिकानि साधारणजनाः अपि प्राप्नुवन्ति । अस्मिन्नर्थे राज्ञां का विशेषता ? किन्तु 'इदं सर्वं मम' इति ममताभावनैव राज्ञामपि सुखदा भवतीत्यर्थ:
satasa8RSR88RSONASRSASASASRSANASNA
॥१९२॥