________________
॥ अथ पञ्चमः प्रक्रमः ॥
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
शालेः पुण्यकणश्रेणिः, किं गणेयाः कथञ्चन । इदमीयः परं मान-महिमा परिभाव्यताम् ॥ १ ॥
'शालेः' शालिभद्रस्य । धान्यपक्षे-शालिव्रीहे: । 'पुण्यकणश्रेणिः' पुण्यांशावली । पक्षे-पवित्रकणमाला । किं कथञ्चन। 'गणेयाः' गणयितुं शक्या: ? नैवेत्यर्थः । गयहृदयादयः ॥ (उणा-३७०) ॥ इति एये गणेयं निपात्यते । यद् वाचस्पति:-'गणनीयं तु गणेयम्' इति । 'परं' परन्तु । 'इदमीयः' अस्य अयम् इदमीयः । 'मान-महिमा' गौरखमहिमा । पक्षे-प्रमाणमहिमा । 'परिभाव्यतां' विचार्यताम् ॥ १ ॥
राजालोकात् किलोद्वेले, शालेर्वैराग्यसागरे । मामर्त्यश्रियौ गङ्गा-सिन्धू वैरस्यमीयतुः ॥ २ ॥
'राजालोकात्' श्रेणिकदर्शनात् । सागरपक्षे-चन्द्र-दर्शनात् । किलः निश्चये । 'उद्वेले' उच्चा: वेला: तरङ्गाः यस्मिन् तस्मिन् । 'शालेः' शालिभद्रस्य । वैराग्यसागरे। 'मामर्त्यश्रियौ' मनुष्यदेवलक्ष्म्यौ । 'गङ्गासिन्धू' तन्नाम्न्यौ नद्यौ । 'वैरस्य' क्षारतारूपां विरसताम् । 'ईयतुः' प्रापतुः ॥ २ ॥
महामात्रेण तेनाऽथ, मानोऽयं गन्धसिन्धुरः । वैराग्यरङ्गसिन्दूर-पूरैः श्रृङ्गारितो बभौ ॥ ३ ॥
अथ । 'महामात्रेण इव' हस्तिपकेन इव । 'तेन' शालिभद्रेण । 'अयं मानः गन्धसिन्धुरः' मानरूप: गन्धहस्ती। 'वैराग्यरङ्गसिन्दूरपूरैः' विरक्तिरङ्गसिन्दूर-प्रवाहैः । 'श्रृङ्गारितः' मण्डितः । 'बभौ' भाति स्म ॥ ३ ॥
ARRARAUAYA8A82828282828282888
॥१९१॥